SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ [विवक्षति] बू । अनेन वच्० । वक्तुमिच्छति । 'तुमर्हादिच्छायां०' ( ३।४।२१) सन्प्र० । सन्-यडञ्च' (४।१।३) द्विः । क० । 'नाम्यन्तस्था० ' (२।३।१५ ) षत्वम् । क - पसंयोगे 'सन्यस्य' (४।१।५९) इ । 'च-ज: क- गम्' (२।१।८६) च० क्ष० । वर्त्त० तिव । [वक्तव्यम्] द्रू । अनेन वच्० । उच्यते । 'तव्याऽनीयौ' (५।१।२७) तव्यप्र० । 'च-जः क-गम् ' (२।१।८६) च० → क० । [ वक्तुम् ] बू । अनेन वच्० । वचनाय = वक्तुम् । क्रियायां क्रियार्थायां तुम्०' (५|३ | १३) तुम्प्र० । 'च-जः कगम्' (२।१।८६) च० क० । २१९ बूंग्कोऽनुस्वारेत्त्वाद्वच इडभावः । [ कथं लावण्य उत्पाद्य इवास यत्नः ?] अषी (९३१)- 'असी गत्यादानयोश्च' (९३२) अस् । परोक्षा णव् । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । अस्याऽऽदेराः परोक्षायाम्' (४।१।६८) आ । [ईक्षामास] ‘ईक्षि दर्शने’ (८८२) ईक्ष् । परोक्षा ए । 'गुरुनाम्यादेरनृच्छूर्णो:' ( ३।४।४८) आम् । [अस्ति] 'असक् भवे(भुवि ) ' (११०२) अस् । वर्त्त व् । [स्यात्] अस् । सप्तमी यात् । ' श्ना- ऽस्त्योर्लुक्' (४।२।९०) अलुक् । [ अस्तु ] अस् । पञ्चमी तुव् । [आसीत्] अस् । ह्यस्तनी दिव् । 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५ ) ईत् → ई । 'स्वरादेस्तासु' ( ४१४ ।३१) वृ० आ । [ सन् ] 'असक् भवे (भुवि )' (११०२) अस् । अस्तीति सन् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० अत् । ‘श्ना-ऽस्त्योर्लुक्’ (४।२।९०) अलुक् । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । ' दीर्घड्याब्० ' (१।४।४५ ) सिलुक् । 'पंदस्य' (२।१।८९) तलोपः । [ब्रवीति] 'बूंग्क् व्यक्तायां वाचि' (११२५) बू । वर्त्त० तिव् । 'बूतः परादिः ' ( ४ | ३ |६३ ) ईत् । 'नामिनो गुणोऽक्ति' (४।३।१) गु० ओ । 'ओदौतोऽवाव् ' (१।२।२४) अव् । [ब्रूते] वू । वर्त्त० ते । [ ब्रूयात्] वू । सप्तमी यात् । [ब्रवीतु] बू । पञ्चमी व् तु । 'बूतः परादिः ' ( ४ | ३ |६३) ईत् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ | 'ओदौतोऽवाव्' (१।२।२४) अव् । [अब्रवीत् ] ब्रू । ह्यस्तनी दिव्त् । ब्रूतः परादिः ' ( ४|४|६३ ) ईत् । 'नामिनो गुणोऽक्ङिति' ( ४।३।१) गु० ओ । ‘ओदौतोऽवाव्’ (१।२।२४) अव् । 'अड् धातो०' (४।४।२९) अट् । [ब्रुवन्] बू । ब्रवीतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् । 'धातोरिवर्णोवर्णस्येयुव्०' (२।१।५० ) उव् । (‘संयोगात्' (२।१।५२) उद्) । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ' दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy