SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [पित्रीस्यात् पितृ । अपिता पिता स्यात् = पित्रीस्यात् । 'कृ-भ्वस्तिभ्यां०' (७।२।१२६) च्चिप्र० । अनेन ऋत० → री० । 'अप्रयोगीत्' (१1१।३७) च्चिलोपः । 'असक भुवि' (११०२) अस् । सप्तमी यात् । 'श्ना-ऽस्त्योर्मुक्' (४।२।९०) अलोपः । [चेक्रीयते] 'डुकंग करणे' (८८८) कृ । भृशं पुनः पुनर्वा करोति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० → अनेन क्री० । 'सन्-यडश्च' (४।१३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादे:' (४।११४८) गु० ए । 'क-डश्च-ञ्' (४।१।४६) क० → च० । जेहीयते] 'हंग हरणे' (८८५) ह । भृशं पुनः पुनर्वा हरति । 'व्यञ्जनादेरेकस्वरा' (३।४।९) यड्य० → य । अनेन ही० । 'सन्-यङश्च' (४।१३) द्वि: । 'व्यञ्जनस्याऽनादेलुक' (४।१।४४) अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।११४८) गु० ए । 'ग-होर्जः' (४/११४०) ह० → ज० । [पित्रीयति] पितृ । पितरमिच्छति । 'अमाव्ययात् क्यन च' (३।४।२३) क्यनप्र० → य । अनेन ऋत्० →री०। [मात्रीयति] मातृ । मातरमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । अनेन ऋत्० → री०। [पित्रीयते] पितृ । पितेवाचरति । 'क्यङ' (३।४।२६) क्यप्र० → य । अनेन ऋत० →री० ।। [मात्रीयते] मातृ । मातेवाचरति । ‘क्यङ्' (३।४।२६) क्यङ्प० → य । अनेन ऋत्० → री० । [चेकीर्यते] ‘कृत् विक्षेपे' (१३३४) कृ । भृशः पुनः पुनर्वा किरति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० → य । 'ऋतां विडतीर्' (४।४।११६) इर् → किर् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घत्वम् । दीर्घत्वस्य असत्त्वात् ‘सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'क-डश्च' (४।११४६) क० → च० । __ [निजेगिल्यते] 'गृत् निगरणे' (१३३५) गृ, निपूर्व० । गर्हितं निगिलति । 'गृ-लुप-सद-चर-जप-जभ-दश-दहो गये' (३।४।१२) यय० → य । 'ऋतां क्डित्तीर्' (४।४।११६) इर् → गिर् । भ्वादे मिनो०' (२।१।६३) दीर्घत्वम् । दीर्घत्वस्य असत्त्वात् 'सन्-यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।११४८) गु० ए । 'ग-होर्जः' (४।१।४०) ग० → ज० । 'ग्रो यङि' (२।३.१०१) इति लत्वम् ।।छ।। रिः श-क्या-5ऽशीर्ये ।।४३११०॥ [रिः] रि प्रथमा सि । [शक्याऽऽशीर्य] आशिपो यः = आशीर्यः, शश्च क्यश्च आशीर्यश्च = शक्याऽऽशीर्यम्, तस्मिन् । व्याप्रियते] 'पृड्त् व्यायामे' (१४६५) पृ, वि-आयूर्व० । वर्त० ते । 'तुदादे: शः' (३।४।८१) शप्र० → अ । अनेन रि० → प्रि० । 'संयोगात्' (२।१।५२) इय् । [आद्रियते] 'दंडुत् आदरे' (१४६६) दृ, आयूर्व० । वर्त्त० ते । 'तुदादेः शः' (३।४।८१) शप्र० → अ । अनेन रि० → द्रि० । 'संयोगात्' (२।१।५२) इय् । [क्रिया] 'डुकंग करणे' (८८८) कृ । करणं = क्रिया । 'कृगः श च वा' (५।३।१००) शप्र० → अ । अनेन P.卐 अनादरे । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy