SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । आशिषीणः ।।४।३।१०७।। [आशिषि] आशिष् सप्तमी ङि । [ईणः] ईश्चासौ इण् च = ईण, तस्य = ईणः । षष्ठी डस् । [उदियात्] 'इंण्क् गतौ' (१०७५) इ, उत्पूर्व० । आशीः क्यात् → यात् । 'दीर्घश्च्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घत्वे सति अने ह्रस्वः । [समियात्] 'इंण्क् गतौ' (१०७५) इ, सम्पूर्व० । आशीः क्यात् → यात् । दीर्घश्च्चि-यङ्' (४।३।१०८) दीर्घत्वे सति अनेन ह्रस्वः । [अन्वियात्] ‘इंण्क् गती' (१०७५) इ, अनुपूर्व० । आशीः क्यात् → यात् । 'दीर्घश्च्चि-यङ्' (४।३।१०८) दीर्घत्वे सति अनेन ह्रस्वः । [ईयात्] 'इंण्क् गतौ' (१०७५) इ । आशीः क्यात् → यात् । दीर्घश्च्चि-यङ्' (४।३।१०८) दीर्घः । [समेयात्] सम्-आयूर्व०, इ । आशीः क्यात् → यात् । 'दीर्घश्च्चि-यङ्' (४।३।१०८) दीर्घः । अनेन ह्रस्वे कृते आङ सह एत्वे च कृते पुनर्हस्वत्वं प्राप्नवतः (?) ईकाराभावेन निषिध्यते । [प्रतीयात्] प्रति-इ । आशीः क्यात् → यात् । 'दीर्घश्च्चि०' (४।३।१०८) दीर्घः । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । अत्र समानलक्षणे दीर्घ सति कथं न इस्वः ? न, दीर्घ सति उपसर्गात् परस्येणोऽभावात् ।।छ।। दीर्घश्च्चि -यङ्-यक्-क्येषु च ।।४।३।१०८।। [दीर्घः] दीर्घ प्रथमा सि । [च्चियङ्यक्क्येषु] च्विश्च यङ् च यक् च क्यश्च = च्चियङ्यक्क्याः , तेषु । [च] च प्रथमा सि । [शुचीकरोति शुचि । अशुचिं शुचिं करोति = शुचीकरोति । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे चिः' (७।२।१२६) च्चिप्र० । अनेन दीर्घः । 'अप्रयोगीत्' (१1१।३७) च्चिलोपः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप । [शुचीस्यात् शुचि । अशुचिः शुचिः स्यात् = शुचीस्यात् । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७।२।१२६) च्विप्र० । अनेन दीर्घः । 'अप्रयोगीत' (१1१1३७) च्चिलोपः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप । [पटूकरोति पटु । अपटुं पटुं करोति = पटूकरोति । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७।२।१२६) विप्र० । अनेन दीर्घः । 'अप्रयोगीत्' (१।१।३७) च्चिलोपः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [पटूभवति] अपटुः पटुः भवति । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां (७।२।१२६) च्विप्र० । अनेन दीर्घः । 'अप्रयोगीत' (१११३७) विलोपः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [पटूस्यात् अपटुः पटुः स्यात् । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां०' (७।२।१२६) च्चिप्र० । अनेन दीर्घः । 'अप्रयोगीत्' (१1१1३७) विलोपः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । [चेचीयते] 'चिंग्ट् चयने' (१२९०) चि । भृशं पुनः पुनर्वा चिनोति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम । Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy