________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
[जेघ्नीयते] 'हनंक् हिंसा-गत्योः' (११००) हन् । भृशं पुनः पुनर्वा हन्ति । 'व्यञ्जनादेरेकस्वराट्ठे' (३१४।९) यप्र० । अनेन हन्० → ‘“घ्नी’आदेशः । ' सन्-यश्च' (४|१|३) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ह्रस्वः’ (४।१।३९) ह्रस्वः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ०ग० । 'ग- होर्ज:' ( ४।१।४० ) ग० ज० । 'आगुणावन्यादेः' (४।१।४८) गु० ए । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[द्विषो जेघ्नीयिषीष्ट वः ] हन् । भृशं पुनः पुनर्वा वध्यात् । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) य० । अनेन हन्० → “घ्नी” आदेशः । 'सन् - यङश्च' (४|१|३) द्विः । व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) अनादिव्यञ्जनलोपः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ०ग० । 'ग- होर्ज:' ( ४।१।४०) ग०ज० । 'आगुणावन्यादेः' (४।१।४८) गु० ए । आशी: सीष्ट । इट् । 'अतः ' ( ४ | ३ |८२) अलोपः । युष्मद् पष्ठी आम् । 'पदाद् युग्विभक्त्यैकवाक्ये वस्-नसो वहुत्वे' (२।१।२१) वसादेशः ।
[जंघन्यते] हन् । भृशं पुनः पुनर्वा हन्ति । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) य० । 'सन् - यङश्च' (४।१।३) द्विः । 'ग-होर्जः' (४।१।४०) ह० ज० । 'मुरतोऽनुनासिकस्य' (४।१।५१ ) मोऽन्तः । ' अङे हि-हनो हो घः पूर्वात् '
(४।१।३४) ह० घ० ।
२०५
[जेघ्नीतः ] 'हनंक् हिंसा - गत्योः ' (११००) हन् । भृशं पुनः पुनर्वा हन्ति ( हतः) । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यङ्ग्य्र० । ‘बहुलं लुप्’ (३।४।१४ ) यड्लुप् । अनेन “घ्नी" आदेशः । ' सन्-यडञ्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्’ (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । ' द्वितीय - तुर्ययोः पूर्वी' (४।१।४२) घ० ग० । 'ग-होर्जः' (४।१।४०) ग० ज० । 'आ-गुणावन्यादेः' (४/१/४८) गु० ए । वर्त्त० तस् ।
तिघात् ||४ | ३ |१०० ॥
ञ्णी, ञ्णावितावनुबन्धी' यस्याऽसौ ञ्णित्, तस्मिन् ।
[ ञ्णिति] ञ् च ण् च =
[ घात् ] घात् प्रथमा सि ।
[घातः ] 'हनंक् हिंसा - गत्योः ' (११०० ) हन् । हननं = घातः । ‘भावा-ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । अनेन " घात्" आदेशः ।
[घातयति] हन् । घ्नन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । अनेन " घात्” आदेशः । वर्त्त० तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । [घातकः] हन् । हन्तीति घातकः । 'णक-तृचौ ' ( ५।११४८ ) णकप्र० अक । अनेन " घातू" आदेशः । [साधुघाती] साधु-हन् । साधु हन्तीति । 'साधौ ' ( ५ | १|५५) णिन्प्र०इन् । अनेन " घात् " आदेशः । प्रथमा सि । ‘इन्-हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । ' दीर्घयाव् ० ' (१।४।४५) सिलोपः । नाम्नो नोऽनहून: ' (२1१1९१ )
नलुक् ।
Jain Education International
[घातंघातम् ] हन् । अभीक्ष्णं हननं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० । अनेन " घात्” आदेशः । 'भृशाऽऽभीक्ष्ण्याऽविच्छेदे द्विः प्राक् तमवादेः' (७।४।७३) द्विः ।
[हतः] हन् । वर्त्त० तस् । ‘यमि-रमि-नमि-गमि- हनि-मनि-वनति - तनादेर्धुटि क्ङिति' (४।२।५५) नलुक् ।
P. कुटिलं हन्ति । 'गत्यर्थात् कुटिले' ( ३|४|११ ) य० ।
For Private & Personal Use Only
www.jainelibrary.org