________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
[तास्थेयात्] स्था । भृशं पुनः पुनर्वा तिष्ठति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९) य० । 'सन्-यडश्च' (४|१|३) द्विः । ‘अघोषे शिटः' (४।१।४५) सलुक् । 'ह्रस्वः' (४/१/३९) ह्रस्वः । द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) थ० “आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । आशीः क्यात् यात् । अनेन आ०
० ।
ए० ।
[अवसासेयात्] सा । भृशं पुनः पुनर्वा अवस्यति अवसायति । 'व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) य० । 'सन्-यडश्च' (४।१।३) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४ ) यड्लुप् । आशीः क्यात् यात् । अनेन आ० ए० ।
[दादेयात्] दा । भृशं पुनः पुनर्वा ददाति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० । 'सन् - यङश्च' (४।१।३) द्विः । 'ह्रस्वः' (४|१|३९ ) ह्रस्वः । 'आ-गुणावन्यादेः' ( ४|१|४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । आशीः क्यात् → यात् । अनेन आ० ए० ।
[दाधेयात्] धा । भृशं पुनः पुनर्वा दधाति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४1९ ) यप्र० । 'बहुलं लुप्' ( ३।४।१४) यङ्लुप् । ‘सन्-यङश्च’ (४|१|३) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । द्वितीय - तुर्ययोः पूर्वी' (४।१।४२) ध० द० । 'आगुणावन्यादेः' (४।१।४८) आ । आशी: क्यात् यात् । अनेन आ०
ए० ।
[मामेयात्] मा । भृशं पुनः पुनर्वा माति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० । 'बहुलं लुप्' ( ३।४।१४) यङ्लुप् । ‘सन्-यङश्च’ (४।१।३) द्विः | 'ह्रस्वः' (४|१|३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) आ । आशीः क्यात् → यात् । अनेन आ० ए० ।
[यायात् ] 'यांक् प्रापणे' (१०६२) या । आशीः क्यात् → यात् 1
[गासीष्ट ] गा । आशीः सीष्ट ।
[ पासीष्ट ] पा । आशीः सीष्ट ॥ छ ||
२०१
ईर्व्यञ्जनेऽयपि || ४ | ३ |९७ ।।
[ई] ई प्रथमा सि ।
[ व्यञ्जने] व्यञ्जन सप्तमी ङि ।
[ अयपि ] न यप् = अयप्, तस्मिन् ।
[गीयते] कैं ( ३६ ) - 'गैं शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य ' ( ४।२।१) गा । 'गां गतौ ' ( ५८६ ) गा । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० य । अनेन आ०
ई० ।
[जेगीयते] गा । भृशं पुनः पुनर्वा गायति-गाते । 'व्यञ्जनादेरेकस्वराद्० ' ( ३।४।९) य० । अनेन आ० ई० । 'सन्-यङश्च' (४।१।३) द्विः । 'ह्रस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्ज:' ( ४।१।४०) ग० ज० । 'आ-गुणावन्यादेः' (४।१।४८ ) गु० ए ।
Jain Education International
[ गीतः, गीतवान् ] गा । गीयते स्म । गायति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०त क्तवतुप्र० → तवत् । ई० ।
अनेन आ०
[गीत्वा ] गा । गानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० त्वा । अनेन आ० ई० ।
For Private & Personal Use Only
www.jainelibrary.org