________________
२००
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[ग्लासीष्ट] 'ग्लैं हर्षक्षये' (३१) ग्लै | 'आत् सन्ध्यक्षरस्य' (४२११) ग्ला | आशीः सीष्ट ।
[ग्लानः] ‘ग्लै हर्षक्षये' (३१) ग्लै । ग्लायते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'व्यञ्जनान्तस्थाऽऽतोऽख्याध्यः' (४।२७१) त० → न० ॥छ।।
म्लानः] ‘म्लें गात्रविनामे' (३२) म्लै । म्लायते स्य । 'क्त- क्तवत' (५1१1१७४) क्तप्र० →त । 'व्यञ्जनान्तस्था०' (४।२७१) त० → न० ।
गा-पा-स्था-सा-दा-मा-हाकः ॥४।३९६।।
[गापास्थासादामाहाकः] गाश्च पाश्च स्थाश्च साश्च दाश्च माश्च हाक् च = गापास्थासादामाहाक्, तस्य ।
[गेयात] के (३६) - ‘गै शब्दे' (३७) गै । 'आत् सन्ध्यक्षरस्य' (४।२।१) गै० → गा० । आशी: क्यात → यात् । अनेन आ० → ए० ।
[पेयात् गा-स्थोर्मध्ये पाठादौवादिकयोः ‘पां पाने' (२) पा । मैं शोषणे' (४७) पै । 'आत् सन्ध्यक्षरस्य' (४।२।१) पा । आशीः क्यात् → यात् । अनेन आ० → ए० ।
[स्थेयात 'ष्ठ गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० स० वक्षस्कार (१) | सूत्र (२९)) स्था । आशी: क्यात् → यात् । अनेन आ० → ए० ।
[अवसेयात्] ‘पोंच् अन्तकर्मणि' (११५०) षो । 'षः सोऽष्ट्यै०' (२।३।९८) सो । ः (४२) - 6 (४३) - ‘सैं क्षये' (४४) सै । 'आत् सन्ध्यक्षरस्य' (४।२।१) सा, अवपूर्व० । आशीः क्यात् → यात् । अनेन आ० → ए० ।
दासंज्ञः [देयात्] 'डुदांगक् दाने' (११३८) दा । आशीः क्यात् → यात् । अनेन आ० → ए० । [धेयात्] 'डुधांगक धारणे च' (११३९) धा । आशीः क्यात् → यात् । अनेन आ० → ए० । मियात] 'मांक माने' (१०७३) मा । आशी: क्यात →यात् । अनेन आ० → ए० । [हेयात् 'ओहांक त्यागे' (११३१) हा । आशी: क्यात् → यात् । अनेन आ० → ए० । ककारो यङ्लुपनिवृत्त्यर्थ:
[जहायात्] 'ओहांक त्यागे' (११३१) हा । भृशं पुनः पुनर्वा जहाति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ्वा ' (३।४।९) यङ्प० । 'सन्-यडश्च' (४191३) द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'ग-होर्जः' (४।१।४०) ह० → ज० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । 'न हाको लुपि' (४।१।४९) इति पूर्वस्याऽऽकारो न भवति ।
शेषाणां तु यलुप्यपि भवति
[जागेयात्] के (३६) - ‘गै शब्दे' (३७) गै | 'आत् सन्ध्यक्षरस्य' (४।२।१) गा । भृशं पुनः पुनर्वा गायति । 'व्यञ्जनादेरेकस्वराद' (३।४।९) यप्र० । 'सन्-यङश्च' (४।१३) द्विः । 'इस्वः' (४।१३९) इस्वः । 'ग-होर्जः' (४११४०) ग० → ज० । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । आशीः क्यात् → यात् । अनेन
आ० → ए० । . [पापेयात्] पा । भृशं पुनः पुनर्वा पिबति-पायति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प० । 'सन् यङश्च' (४।१।३) द्विः । हूस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । आशीः क्यात् → यात् । अनेन आ० → ए० ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org