________________
१९६
[स] स् सप्तमी ङि ।
[वत्स्यति] 'वसं निवासे' (९९९) वस् । भविष्यन्ती स्यति ।
[ अवत्स्यत् ] वस् । क्रियातिपत्तिः स्यत् । 'अड् धातोरादिर्ह्यस्तन्यां चाऽमाडा' (४।४।२९ ) अट् ।
[अवात्सीत्] वस् । अद्यतनी दि तू । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५) ईत् → ई । इट् । 'इट ईति' (४।३।७१) सिच्लोपः । 'व्यञ्जनानामनिटि' ( ४।३।४५ ) वृद्धिः आ । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ वत्सीष्ट चैत्रेण] वस् । आशीः सीष्ट । अनेन स०
त० ।
[व्यतिवत्सीष्ट] वस्, वि-अतिपूर्व० । आशीः सीष्ट । अनेन स० त० ।
[विवत्सति] वस् । उपितु (वस्तु) मिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'सन्यस्य' (४।१।५९) इ । अनेन स० त० ।
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[जिघत्सति ] 'अदं भक्षणे' (१०५९) अद् । अत्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१ ) सन्प्र० । घस्लृ सनद्यतनी - घञचलि' (४।४।१७) घस् । 'सन्-यडश्च' (४।१।३) “घ 'द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ०ग० । 'ग होर्ज:' ( ४।१।४०) ग० ज० । 'सन्यस्य' (४।१।५९) इ । अनेन स०
त० ।
[घत्स्यति ] 'घस्लृ अदने' (५४४) घस् । भविष्यन्ती स्यति । अनेन स०
त० ।
[व्यतिघत्सीष्ट ] 'घस्लृ अदने' (५४४) घस्, वि-अतिपूर्व० । आशीः सीष्ट । अनेन स० → त० ।
[यक्षीष्ट ] 'यर्जी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । आशीः सीष्ट । 'यज-सृज-मृज-राज-भ्राज-भ्रस्ज-ब्रस्वपरिव्राजः शः पः' (२।१।८७) ज० ष० । 'ष ढोः कस्सि' (२।१।६२) प० क० । 'नाम्यन्तस्था०' (२|३|१५)
पत्वम् । क-षसंयोगे क्ष० ।
[यक्ष्यते] यज् । भविष्यन्ती स्यते । 'यज- सृज - मृज-राज-भ्राज० ' (२1१।८७) ज० प० । ष ढोः कस्सि' (२1१।६२) प० क० । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । क- पसंयोगे क्ष० ।
[आस्से] 'आसिक् उपवेशने' (१११९) आस् । वर्त्त० से ।
[वस्से] 'वसिक् आच्छादने' (१११७) वस् । वर्त्त० से ।
[ अवात्ताम् ] 'वसं निवासे' (९९९) वस् । अद्यतनी ताम् । सिच्चिषयेऽनेन स० त० । 'सिजद्यतन्याम्' ( ३ | ४|५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धि: । ' धुड्-हस्वाल्लुगनिटस्त-थो:' ( ४१३।७०) सिच्लोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[ अवात्त ] 'वसं निवासे' (९९९) वस् । अद्यतनी त । सिच्चिषयेऽनेन स० त० । सिजद्यतन्याम्' (३|४|५३) सिच् । ‘व्यञ्जनानामनिटि’ ( ४ | ३ | ४५ ) वृद्धिः । ' धुङ्-हस्वाल्लुगनिटस्त-थोः ' ( ४।३।७०) सिच्लोपः । 'अड् धातोरादि०' (४।४।२.९) अट् । सिचो लुकं स्थानित्वाद्भविष्यतीति न वाच्यम्, यतः सकारे तकार उक्तः, सकारस्य च वर्णविधित्वात् स्थानित्वं न स्यात्, 'स्थानीवाऽवर्णविधी' (७।४।१०९) इति न्यायात्, अत एव सिच्विषये स०
त० ॥ छ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org