SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ [उपक्षीय] 'क्षि क्षये' (१०) क्षि, उपपूर्व० । उपक्षयणं पूर्वम् । 'प्राक्काले' (५/४१४७) क्त्वाप्र० त्वा । 'अनुज्ञः क्त्वो यप्' (३।२।१५४) यप् । अनेन "क्षी" आदेशः ॥ निरनुबन्धनिर्देशात् ' क्षिष‍ हिंसायाम् ' (१५४१ ) इत्यस्य न भवति || छ। क्षय्य - जय्यो शक्ती ||४|३|१०|| [क्षय्यजय्यो] क्षय्यश्च जय्यश्च = क्षय्यजय्यौ । [शक्तौ ] शक्ति सप्तमी ङि । [क्षय्यो व्याधिः ] 'क्षिं क्षये' (१०) क्षि । क्षेतुं शक्यः । 'शक्ता कृत्याश्च' (५।४।३५ ) यप्र० । अनेन इकारस्य अय् निपात्यते । [क्षय्यं बटुना ] 'क्षि क्षये' (१०) क्षि । क्षेतुं शक्यम् । 'शक्तार्ह कृत्याश्च' (५/४१३५) यप्र० । अनेन इकारस्य अय् निपात्यते । [जय्यः शत्रुः] ‘जिं अभिभवे' (८) जि । जेतुं शक्यः । 'शक्ता कृत्याश्च' (५।४।३५) यप्र० । अनेन इकारस्य अय् निपात्यते । [जय्यं राज्ञा ] 'जिं अभिभवे' (८) जि । जेतुं शक्यम् । 'शक्ता कृत्याश्च' (५१४१३५) प्र० । अनेन इकारस्य अय् निपात्यते । क्षेयम् । 'य एच्चातः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । जेयम् । 'य एच्चातः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्डिति' ( ४ | ३ | १) गु० ए । सि सि-अम् । अर्हेऽर्थे - [क्षेयम् ] क्षीयते [जेयम् ] जीयते = अम् ||छ || १९५ क्रय्यः क्रयार्थे || ४ | ३ |९१ ॥ [क्रय्यः ] क्रय्य प्रथमा सि । 'सो रु' (२1१।७२ ) स०र० । [क्रयार्थे] क्राय अर्थः क्रयार्थस्तस्मिन् = क्रयार्थे । क्रयाय चेत् प्रसारितोऽभिधेयो भवति । [क्रय्यो गौः ] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । क्रीयते = क्रय्यः । य एच्चातः' (५।१।२८) यप्र० । अनेन क्रय्यनिपात्यते । [स] स् षष्ठी ङस् । [तः] त प्रथमा सि । - [ क्रय्यः कम्बलः ] क्री । क्रीयते = क्रय्यः । य एच्चातः' (५।१।२८) यप्र० । अनेन क्रय्यनिपात्यते । [क्रेयं नो धान्यम्] क्रीयते । 'य एच्चातः' (५।१।२८) यप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । अस्मद् षष्ठी आम् । 'पदाद् युग्विभक्त्यैकवाक्ये वस्-नसौ बहुत्वे' (२।१।२१) "नस्” आदेशः । धान्य द्वितीया अम् । ग्राहकैरिदमुच्यत इति प्रसारणं संदिग्धं न चास्ति प्रसारितम् ||छ। सस्तः स || ४ | ३९२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy