SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥ १८९ [समिध्यात्, समिध्य्यात्] समिध् । समिधमिच्छति । 'अमाव्ययात्०' (३।४।२३) क्यन्प्र० → य० । आशी क्यातू. → यात् । अतः' (४।३।८२) अलोपः । अनेन यलुक् । [दृषदिष्यते, दृषद्यिष्यते] दृषद् ।+ दृषदमि(दृषदि)वाचरति । 'क्यङ्' (३।४।२६) क्यप्र० → य । भविष्यन्ती स्यते । इट् । 'अतः' (४।३।८२) अलोपः । अनेन यलुक् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [दृषदिषीष्ट, दृषधिषीष्ट] दृषद् । दृषदिवाचरति । ‘क्यङ् (३।४।२६) क्यङ्म० → य । आशीः सीष्ट । इट् । 'अतः' (४।३।८२) अलोपः । अनेन यलुक । [पटीयिता] पटमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प० → य । 'क्यनि' (४३।११२) अ० → ई० । श्वस्तनी ता । इट् । 'अतः' (४।३।८२) अलोपः । [पटायिता] पट । पटमिवाचरति । 'क्यङ्' (३।४।२६) क्यङ्म० → य । 'दीर्घश्च्चि-यङ्-यक्-क्येषु च' (४।३।१०८) दीर्घः । श्वस्तनी ता । इट् । 'अतः' (४।३१८२) अलोपः । [भिषजिता, भिषज्यिता] ‘भिषज् चिकित्सायाम्' (२०१४) भिषज् इति सौत्रो धातुः । 'धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प० → य । श्वस्तनी ता । इट् । मतान्तरेऽनेन वा यलुक् । [शिषिता, शिष्यिता] 'शासूक् अनुशिष्टौ' (१०९५) शास् । शिष्यते । 'दृ-वृग-स्तु-जुषेति-शासः' (५।१।४०) क्यप्प० → य । ‘इसासः शासोऽव्यञ्जने' (४।४।११८) शिस्० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । शिष्य । शिष्य इवाचरिता । 'कर्तुः क्वि०' (३।४।२५) क्विप्र० । 'अप्रयोगीत्' (११३७) विप्लोपः । श्वस्तनी ता । इट् । 'अतः' (४।३।८२) अलुक् । मतान्तरे यलुक् ।।छ।। अतः ।।४।३।८२।। [अतः] अत् पञ्चमी डसि । [कथयति] 'कथण वाक्यप्रवन्धे' (१८८०) कथ । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । अनेन अलुक् । वर्त्तः तिव् । 'कतर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । __ [कुषुभ्यति] 'कुषुभ क्षेपे' (२०२७) कुषुभ इति सौत्रो धातुः । 'धातोः कण्ड्वादेर्यक्' (३।४।९) यक्प्र० → य । अनेन अलुक् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । मिगध्यति] 'मगध परिवेष्टने' (२०२४) मगध इति सौत्रो धातुः । 'धातोः कण्डवादेर्यक' (३।४८) यकप्र० → य । अनेन अलुक् । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 5 [चिकीर्षिता] 'डुकंग करणे' (८८८) कृ । कर्तुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । ‘स्वरहन-गमोः सनि धुटि' (४।१।१०४) दीर्घः । 'ऋतां विडतीर्' (४।४।११६) किर् । 'सन्-यडश्च' (४।१३) किर्द्विः । 'क-डश्व-ञ्' (४।१।४६) क० → च० । 'भ्वादेर्नामिनो०' (२११६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । श्वस्तनी ता। इट् । अनेन अलुक् । [प्रचिकीर्ण्य] प्रचिकीर्ष । प्रचिकीर्षणं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । अनेन अलुक । P. + दृषदिवाचरिष्यति । ॐ बृहद्वृत्तौ-चैकीर्षितः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy