SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १८८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । [शाशयिता] 'शीक स्वप्ने' (११०५) शी । भृशं पुनः पुनर्वा शेते । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प० । 'क्डिति यि शय्' (४।३।१०५) शी० →शय० । 'सन्-यडश्च' (४१३) द्विः । 'आ-गुणावन्यादेः' (४।१।४८) आ । श्वस्तनी ता । इट् । 'अतः' (४।३।८२) अलोपः । अनेन यलुक् । __ [कुषुभिता] 'कुषुभ क्षेपे' (२०२७) कुषुभ इति सौत्रो धातुः । 'धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प० → य । 'अतः' (४।३।८२) अलोपः । श्वस्तनी ता । इट् । 'अतः' (४।३।८२) अलुक् । अनेन यलुक् । (अथवा) कुषुभ्यतीति । ‘णक-तृचौ' (५।१।४८) तृच्प्र० → तृ । 'अतः' (४।३।८२) अलोपः । अनेन यलुक् । [मगधिता] 'मगध परिवेष्टने' (२०२४) मगध इति सौत्रो धातुः । ‘धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प्र० → य । 'अतः' (४।३।८२) अलोपः । श्वस्तनी ता । इट् | ‘अतः' (४।३।८२) अलोपः । अनेन यलुक । [ईर्ण्यिता] सूर्य (४००) - ईl (४०१) - 'ईj ईर्ष्यार्थाः' (४०२) ईर्दा । श्वस्तनी ता । इट् । [मव्यिता] 'मव्य बन्धने' (३९९) मव्य । श्वस्तनी ता । इट् । [पुत्रकाम्यिता] पुत्रमिच्छति । 'द्वितीयायाः काम्यः' (३।४।२२) काम्यप्र० । श्वस्तनी ता । इट् । 'अतः' (४।३।८२) अलोपः । [लोलूयिता] 'लूग्श् छेदने' (१५१९) लू । भृशं पुनः पुनर्वा लुनाति । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) यङ्म० । ‘सन्-यङश्च' (४।१।३) द्वि: । 'हूस्वः' (४।१।३९) ह्रस्वः । ‘आ-गुणावन्यादेः' (४१४८) गु० ओ । श्वस्तनी ता । इट् । 'अतः' (४।३।८२) अलोपः । [कण्डूयिता] 'कण्डूग् गात्रविघर्षणे' (१९९१) कण्डू इति सौत्रो धातुः । 'धातोः कण्ड्वादेर्यक्' (३।४।८) यक्प्र० → य । श्वस्तनी ता । इट् । 'अतः' (४।३।८२) अलोपः । [बेभिद्यते] भिद् । भृशं पुनः पुनर्वा भिनत्ति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१।३) द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० → ब० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त० ते । 'कर्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । [चेच्छिद्यते] 'छिद्रूपी द्वैधीकरणे' (१४७८) छिद् । भृशं पुनः पुनर्वा छिनत्ति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'सन्-यङश्च' (४।१३) द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४११४२) छ० → च० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ए । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।।छ।। क्यो वा ।।४।३।८१॥ [क्यः] क्य् षष्ठी डस् । [वा] वा प्रथमा सि । [समिधिष्यति, समिध्यिष्यति] सम् 'जिइन्धैपि दीप्तौ' (१४९८) इन्ध् । समिधिष्यतीति । 'क्रुत्संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । समिधमिच्छति । ‘अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य । भविष्यन्ती स्यति । इट् । 'अतः' (४।३।८२) अलुक् । अनेन यलुक् विकल्पेन । म इदमुदाहरणं बृहद्वृत्ती नास्ति । P. 卐 समिन्धे ज्वलनोऽस्यामिति । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy