________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [दरिद्रांचकृवान्] दरिद्रा । ददरिद्रौ । तत्र क्वसु- कानौ तद्वत्' (५१२१२) क्वसुप्र०वस् । धातोरनेकस्वरादाम् परोक्षायाः, कृभ्वस्ति चानु तदन्तम्' ( ३।४।४६) वस्० आमादेशः । क्वसु-कानोरामादेशेऽस्य अ ( आ ) मादेशस्य 'स्वरादयोऽव्ययम्' (१।१।३० ) इति बहुवचनादव्ययत्वे पदत्वे च सति 'तौ मुमो व्यञ्जने० ' (१।३।१४ ) इत्यादिना सिद्धावन्यथा 'म्नां०' (१ | ३ | ३९ ) इत्यादिना अन्त्य एव स्यात् । परोक्षा णव् । “आतो णव औ' (४।२।१२० ) इति सूत्रे औ ग्रहणात् अनित्यः क्वचिदामादेशः । अन्यथा हि औरिति कृतेऽपि सर्वे प्रयोगाः सिध्यन्ति तेन ददरिद्रावानिति विग्रहः । पूर्ववत् आलुक् । 'डुकृंग् करणे' (८८८) कृ । चकार = चक्रवान् । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र०वस् । द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) “कृ”द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क- डञ्च - ञ्' (४।१।४६) क० च० । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'न्स्महतोः' (१।४।८६) दीर्घः । दीर्घड्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९ ) सलोपः ।
१८४
[ दरिद्रः ] दरिद्रा । दरिद्रातीति । 'अच्' (५।१।४९ ) अच्प्र० अ । न तु तन्-व्यधीण्-श्वसातः' (५।१।६४ ) णप्र०, पूर्वमनेन आलुक् ततः प्रत्ययः ।
[दुर्दरिद्रम् ] दुर्-दरिद्रा । दुःखेन दरिद्र्यते । 'दुः- स्वीषतः कृच्छ्राऽकृच्छ्रार्थात् खल्' ( ५।३।१३९) खल्प्र० अ । विषयसप्तमीविज्ञानात् पूर्वमेवाऽऽलोपेऽत्र आकारान्तलक्षणः 'शासू-युधि० ' ( ५ |३|१४१ ) इत्यनेन अनप्रत्ययो न भवति ।
[ दरिद्रः ] दरिद्रा । दरिद्राणम् । अनेन आलुक् । 'भावा- ऽकर्त्री : ' (५।३।१८) घञ्प्र० । 'आत ऐः कृञ्ञी' (४|३|५३) न भवति ।
[ अदरिद्राम् ] दरिद्रा । ह्यस्तनी अम्व् अम् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[[दिदरिद्रासति ] दरिद्रा | दरिद्रितुमिच्छति । 'तुमर्हादिच्छायां ० ' ( ३।४।२१) सन्प्र० । 'सन्- यङश्च' (४।१।३) “द द्विः । 'सन्यस्य' (४।१।५९) इ । वर्त्त० तिव् ।
[ दरिद्रायको व्रजति] दरिद्रा । दरिद्रिष्यामीति व्रजति दरिद्रायकः । (५।३।१३ ) णकच्प्र० अक । 'आत ऐः कृञ्ञी' (४।३।५३) आ० [ दरिद्रायिका वर्तते] दरिद्रा । दरिद्रितुं पर्यायः दरिद्रायिका । ' पर्यायाऽर्हणोत्पत्तौ च णकः' (५|३|१२० ) णकप्र० → अक । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् । 'आत्' (२।४।१८) आप्प्र ० → आ । 'अस्याऽयत्-तत्- क्षिपकादीनाम्' (२।४।१११ ) इ ।
=
[ दरिद्रायकः ] दरिद्रा । दरिद्रातीति । 'णक-तृची' (५।१।४८ ) णकप्र० अक । 'आत ऐः कृञ्ञ' (४।३।५३) आ० ऐ० । 'एदैतोऽयाय्' (१।२।२३) आय् ।
[ दरिद्राणम् ] दरिद्रा । दरिद्र्यते
दरिद्राणम् । 'अनट्' (५।३।१२४) अनट्प्र० अन । सि-अम् । [दिदरिद्रिषति] दरिद्रा । दरिद्रितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः ' ( ३।४।२१) सन्प्र० । शेषं स्पष्टम् । 'इवृधभ्रस्ज-दम्भ०' (४।४।४७) इत्यादिना विकल्पेनेट् । अनेन न आलुक् ।
=
Jain Education International
क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' ऐ० । एदैतोऽयाय्' (१।२।२३) आय् ।
[ दरिद्रकः] दरिद्रा । दरिद्र्यादित्याशास्यमानः । ' आशिष्यकन्' (५।१।७०) अकन्प्र० अक ।
[ ददरिद्रावान् ] दरिद्रा । ददरिद्रौ = ददरिद्रावान् । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र०वस् । द्विः । अनटि क्वाविति वचनां तदा ददरिद्रवान् स्वमते तु दरिदांचकृवान्, यदा ददरिद्रावित्यत्रेवानित्य आमादेशस्तदा ददरिद्रिवान्, अन्ये तु 'आगमशासनमनित्यम्' इति ददरिद्र्वान्, अनेनाकारलोपे भवति, एवं रूपचतुष्टयं, शेषं स्पष्टम् ॥छ ||
For Private & Personal Use Only
www.jainelibrary.org