________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ।।
१७५
[वा] वा प्रथमा सि ।
[असात, असत] 'षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सन् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'तन्भ्यो वा त-थासि न-णोश्च' (४।३।६८) सिच-नस्य च लुप् । अनेन वा आ ।
[असाथाः, असथाः] 'षणूयी दाने' (१५००) षण् । 'षः सोऽष्ट्ये०' (२।३।९८) सन् । अद्यतनी थास् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'तन्भ्यो वा त-थासि न्-णोश्च' (४।३।६८) सिच-नस्य च लुप् । अनेन वा आ ।
[असनिष्ट] (४।३।६८) सूत्रवत् । [असनिष्ठाः ] (४।३।६८) सूत्रवत् ।।छ।।
घर
धुड-हस्वाल्लुगनिटस्त-थोः ।।४।३७०।।
[धुड्ड्स्वात्] धुट् च हूस्वश्च = धुड्ड्स्व म्, तस्मात् ।
[लुक लुग(क) प्रथमा सि । 'लुच अपनयने' (१०३) लुछ् । लुचनं = लुक् । 'क्रुत्संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प्र० । 'अप्रयोगीत्' (११३७) क्विप्लोपः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् ।
[अनिटः] न विद्यते इट् यस्य सः = अनिट, तस्य । [तथोः] तश्च थ् च = तथौ, तयोः = तथोः । सप्तमी ओस् ।
[अभत्ताम्] 'भिदूपी विदारणे' (१४७७) भिद् । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः ऐ । अनेन सिच्लुक् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अभैत्तम्] भिद् । अद्यतनी तम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः ऐ । अनेन सिचलुक् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । 'अड् धातोरादि०' (४।४।२९) अट ।
[अभैत्त भिद् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः ऐ । अनेन सिच्लुक् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अभित्त] भिद् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन सिच्लुक् । 'अघोषे प्रथमोऽशिट:' (१।३।५०) द० → त० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अभित्थाः] भिद् । अद्यतनी थास् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन सिच्लुक् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अवात्ताम्] 'वसं निवासे' (९९९) वस् । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । अनेन सिचलुक । 'सस्तः सि' (४।३।९२) स० → त० । 'अड़ धातोरादि०' (४।४।२९) अट् |
[अवात्तम्] वस् । अद्यतनी तम् । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । अनेन सिचलुक् । 'सस्तः सि' (४।३।९२) स० → त० । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अवात्त] वस् । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'व्यञ्जनानामनिटि' (४।३।४५) वृद्धिः आ । अनेन सिचलुक् । 'सस्तः सि' (४।३।९२) स० → त० । 'अड् धातोरादि०' (४।४।२९) अट ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org