________________
अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
[उदायसत] यम्, उद्-आङ्पूर्व० । अद्यतनी अन्त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेनं किद्वत् । ' यमि-रमिनमि - गमि०' (४।२।५५) मलुक् । 'अनतोऽन्तोदात्मने' (४।२।११४) अन्त० अट् । 'आझे यम-हनः स्वेऽङ्गे च' ( ३।३।८६ ) इत्यात्मनेपदम् ।
अत० । 'अड् धातोरादि०' (४।४।२९)
[ आयंस्त कूपाद्रज्जुम् ] यम्, आङ्पूर्व० । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४१५३) सिच् । 'अड् धातोरादि०' (४।४।२९) अट् । कूप पञ्चमी इसि । रज्जु द्वितीया अम् । उद्धृतवानित्यर्थः । सकर्मकात् 'समुदाडो यमेरग्रन्थे' ( ३।३।९८) इत्यात्मनेपदम् ।।छ।।
वा स्वीकृतौ ||४ | ३ | ४० ॥
१४१
[वा ] वा प्रथमा सि ।
[ स्वीकृतौ ] अस्वस्य स्वस्य करणं = स्वीकृतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० ति । कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्त्वे च्वः' (७।२।१२६) च्चिप्र० । 'ईश्च्वाववर्णस्याऽनव्ययस्य' ( ४ | ३ | १११ ) ई । 'अप्रयोगीत्' (१।१।३७ ). च्विलोपः, तस्याम् ।
[उपायत, उपायंस्त महास्त्राणि] 'यमूं उपरमे' (३८६) यम्, उपपूर्व० । 'यमः स्वीकारे' ( ३।३।५९) आत्मनेपदम् । अद्यतन त । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । आद्ये अनेन सिचः कित्त्वं ततः यमि-रमि- नमि०' (४।२।५५) मलुक् । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[मोपयध्वं भयं सीतां नोपायंस्त दशाननः ] माङ् उप-यम् । अद्यतनी ध्वम् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । ' यमि-रमि- नमि - गमि० ' ( ४।२।५५) मलोपः । सिचलुक् । भय प्रथमा सि । सीता द्वितीया अम् । न उपायंस्त दशाननः । 'यमः स्वीकारे' ( ३।३।५९) इत्यात्मनेपदम् ।
[ उपयंसीष्ट कन्याम् ] यम् - उपपूर्व० । आशीः सीष्ट । 'शिङ्- हेऽनुस्वारः' (१।३।६०) अनुस्वारः ॥ छ ॥
इश्च स्था-दः || ४ | ३ |४१ ।।
[इ] इ प्रथमा सि ।
[च] च प्रथमा सि ।
[ स्थादः ] स्थाश्च दाश्च = स्थादम्, तस्मात् = स्थाद: । 'लुगाऽऽतोऽनापः ' (२1१1१०७) आलुक् ।
[उपास्थित] 'ष्ठां गतिनिवृत्तौ ' ( ५ ) ष्ठा । षः सोऽष्ट्यै ० ' (२।३।९८) स्था । 'निमित्ताभावे० ' (न्या० सं० वक्ष० (१)/सूत्र (२९)) स्था, उपपूर्व० । 'उपात् स्थः ' ( ३।३।८३) आत्मनेपदम् । अद्यतनी त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । अनेन सिचः कित्त्वं आकारस्य इत्वं च । 'धुड्-हस्वा०' (४।३।७०) सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[उपास्थिषाताम् ] स्था, उपपूर्व० । 'उपात् स्थः ' ( ३।३।८३) आत्मनेपदम् । अद्यतनी आताम् । 'सिजद्यतन्याम्'
( ३।४।५३) सिच् । अनेन सिचः कित्त्वं आकारस्य इत्वं च । 'अड् धातोरादि०' (४।४।२९) अट् ।
Jain Education International
[उपास्थिषत] स्था, उपपूर्व० । 'उपात् स्थः ' ( ३।३।८३) आत्मनेपदम् । अद्यतनी अन्त । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । अनेन सिचः कित्त्वं आकारस्य इत्वं च । 'अनतोऽन्तोदात्मने' (४।२।११४) अन्त० अत० । 'अड् धातोरादि०' (४।४।२९) अट् ।
For Private & Personal Use Only
www.jainelibrary.org