SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य तृतीयः पाद: ।। १३९ [वर्धिषीष्ट] वृध् । आशीः सीष्ट । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।३) गु० अर् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।।छ।। वर्णात् ।।४।३।३६।। [ऋवर्णात] ऋकारेणोपलक्षितो वर्णः = ऋवर्णस्तस्मात् । [अकृत] 'डुकंग करणे' (८८८) कृ । अद्यतनी त । ‘सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुड्-हस्वाल्लुगनिटस्तथोः' (४।३।७०) सिच्लुक् । 'अड् धातोरादि०' (४।४।२९) अट् । [अहत] 'हंग् हरणे' (८८५) हृ । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'धुङ्-हस्वाल्लु०' (४।३।७०) सिच्लुक् । ‘अड् धातोरादि०' (४।४।२९) अट् । [कृषीष्ट] कृ । आशीः सीष्ट । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [हषीष्ट] ह । आशी: सीष्ट । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [अतीट] 'तृ प्लवन-तरणयोः' (२७) तृ । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । अनेन किद्वत् । 'ऋवर्णशृण्णुगः कितः' (४।४।५७) इण्निषेधः । 'ऋतां विडतीर्' (४।४।११६) इर् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । 'नाम्यन्तस्था०' (२।३.१५) षत्वम् । 'तवर्गस्य श्ववर्ग०' (१३।६०) त० → ट० । 'अड् धातोरादि० (४।४।२९) अट् । तृ । अतारीत् समुद्रं देवदत्तः, स एवं विवक्षिते नाहमतारिषं किन्तु अतीट समुद्रः स्वयमेव । [अपूष्ट] 'पृश् पालन-पूरणयोः' (१५३२) पृ । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच । अनेन किद्वत् । 'ऋवर्ण-घ्यूण्णुगः कितः' (४।४।५७) इनिषेधः । 'ओष्ठ्यादुर' (४।४।११७) उर | 'भ्वादेन मिनो०' (२।१६३) दीर्घः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । 'तवर्गस्य श्ववर्ग०' (१।३।६०) त० →ट० । 'अड् धातोरादि०' (४।४।२९) अट् । पृ । अपारीत् वाहित्थं देवदत्तः, स एवं विवक्षिते नाहमपारिषं किन्तु अपूर्ट वाहित्थं स्वयमेव ।। तीर्षीष्ट] तृ । आशीः सीष्ट । अनेन किद्वत् । 'कृतां विडतीर्' (४।४।११६) इर् । 'भ्वादेर्नामिनो दीर्घा०' (२।१।६३) दीर्घः । ___ [पूर्षीष्ट] पृ । आशीः सीष्ट । अनेन किद्वत् । ‘ओष्ठ्यादुर्' (४।४।११७) उर् । 'भ्वादेर्नामिनो दीर्घो०' (२।१।६३) दीर्घः । [अवरिष्ट] 'वृकुटु वरणे' (१२९४) वृ । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिन् । 'वृतो नवाऽनाशी:०' (४१४३५) इत्यधिकारः, 'इट् सिजाशिषोरात्मने' (४।४।३६) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अड् धातोरादि०' (४।४।२९) अट् । [वरिषीष्ट वृ । आशीः सीष्ट । 'इट सिजाशिषोरात्मने' (४।४।३६) इट् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० अर् । [अतरिष्ट] तृ । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'इट् सिजाशिपोरात्मने' (४।४।३६) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अड् धातोरादि०' (४।४।२९) अट् । [तरिषीष्ट तृ । आशी: सीष्ट । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।।७।। Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy