SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [नर्नृतीति] 'नृतैच् नर्तने' (११५२) नृत् । भृशं पुनः पुनर्वा नृत्यति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्य० । 'सन्-यडश्च' (४।१।३) द्वि: । 'ऋतोऽत्' (४।१।३८) ऋ० → अ० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । 'रि-रौ च लुपि' (४।१।५६) "" आगमः । वर्त्तः तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् → ई । [अनर्तृतम्] नृत् । भृशं पुनः पुनर्वा अनृत्यम् । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० → य । शेषं पूर्ववत् । ह्यस्तनी अम्व् → अम् । ‘अड् धातोरादिय०' (४।४।२९) अट् । [वेद] 'विदक् ज्ञाने' (१०९९) विद् । वर्त्तः तिव् । 'तिवां णवः परस्मै' (४।२।११७) “णव्" आदेशः । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । [वेदानि] विद् । पश्चमी आनिव् → आनि । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [अवेदम्] विद् । ह्यस्तनी अम्व् → अम् । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'अङ् धातोरादिद्यस्तन्यां०' (४।४।२९) अट् । [जुहवानि] 'हुंक् दाना-ऽदनयोः' (११३०) हु । पञ्चमी आनिव् → आनि । 'हवः शिति' (४।११२) “हु'द्विः । 'ग-होर्जः' (४११४०) ह० → ज० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [बोभवीति] ‘भू सत्तायाम्' (१) भू । भृशं पुनः पुनर्वा भवति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यड्प० । 'सन्यडश्च' (४।१।३) “भू"द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ → ब० । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्तः तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [सोषवीति] 'धूडौक् प्राणिगर्भविमोचने' (११०७) षू । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सू । भृशं पुनः पुनर्वा सूते । व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'सन्-यडश्च' (४।१।३) “सू"द्विः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । 'बहुलं लुप्' (३।४।१४) यड्लुप् । वर्त० तिव् । 'यङ्-तु-रु-स्तोर्बहुलम्' (४।३।६४) ईत् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (११२।२४) अव् । [निनेज] 'णिजूंकी शौचे च (११४१ णिज् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निज् । परोक्षा णव् । 'द्विर्धातुः परोक्षा ३०' (४1919) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४११४४) अनादिव्यञ्जनलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। [विवेद] 'विदक् ज्ञाने' (१०९९) विद् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।११४४) अनादिव्यञ्जनलोपः । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । [बेभेदिषीष्ट] 'भिदंपी विदारणे' (१४७७) भिद् । भृशं पुनः पुनर्वा भिद्यात् । 'व्यञ्जनादेरेकस्वरा०' (३।४।९) यङ्प्र० । 'सन्-यडश्च' (४।१३) द्विः । 'द्वितीय-तुर्ययोः पूर्वी' (४/१९४२) भ० → ब० । 'आ-गुणावन्यादेः' (४।११४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यड्लुप् । आशी: सीष्ट । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अत्र यङ्लुबन्तात् भावा(व)कर्मणोरात्मनेपदम्, न यङन्तात् यडन्तद्वि: 'न वृद्धिश्चाविति डिल्लोपे' (४।३।११) इति गुणनिषेधः स्यात् । [नेनेक्ति] 'णिजूंकी शौचे च' (११४१) णिज् । 'पाठे धात्वादेर्णो नः' (२।३।९७) निज् । भृशं पुनः पुनर्वा नेनेक्ति । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्म० । 'सन्-यडश्च' (४।१॥३) द्विः । 'आ-गुणावन्यादेः' (४।१९४८) गु० ए । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । वर्त्त० तिव । 'च-जः क-गम्' (२।१।८६) ज० → ग० । 'अघोषे प्रथमोऽशिटः' (१३५०) ग० Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy