________________
९६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [परस्मै] परार्थं पदं = परस्मैपदम्, तस्मिन् = परस्मै । सप्तमी ङि । सूत्रत्वात् डिलोपः । ‘ते लुग्वा' (३।२।१०८) पदलोपः ।
वर्तमानातिवादिनव परस्मैपदस्थाने क्रमेण परोक्षाणवादयो नव यथाक्रमेण भवन्तीत्यर्थः ।
[वेद, विदतुः, विदुः, वेत्थ, विदधुः, विद, वेद, विद्व, विद्म] 'विदक ज्ञाने' (१०९९) विद् । वर्त्त० तिव-तस्-अन्तिसिव्-थस्-थ-मिव-वस्-मस् । अनेन तिवादयः अमीषां स्थाने क्रमेण णवादयो नव क्रियन्ते । 'तदादेशस्तद्वत्' इति न्यायात तिवाद्यादेशानां तिवादिकार्य, न तु परोक्षाकार्यम् । प्रथमे गुणः, चतुर्थे सप्तमे च गुणः, पक्षे वेत्ति, वित्तः, विदन्ति, वेत्सि, वित्थः, वित्थ, वेदमि, विद्वः, विमः ।।छ।।
बूगः पञ्चानां पञ्चाऽऽहश्च ।।४।२।११८।। [बूगः] बूग् पञ्चमी ङसि ।
[पञ्चानाम् पञ्चन् षष्ठी आम् । 'संख्यानां णाम्' (१।४।३३) आम्० → नाम्० । 'नाम्नो नोऽनह्नः' (२११।९१) नलोपः । 'दी| नाम्यतिसृ-चतसृ- पूः' (१।४।४७) दीर्घः ।
[पञ्च] पञ्चन् । प्रथमा जस् । ‘डति-ष्णः संख्याया लुप्' (१।४।५४) जस्लुप् । [आहश्च] आह प्रथमा सि । 'सो रुः' (२११७२) र० । च प्रथमा सि ।
[आह, आहतुः, आहुः, आत्थ, आहथुः, ब्रवीति, बूतः, बुवन्ति, ब्रवीषि, बूथः] 'बूंग्क् व्यक्तायां वाचि' (११२५) बू । वर्त्त० तिव-तस-अन्ति-सिव-थस् । अनेन तिवादयः ५ एषां स्थाने णवादयः ५ क्रियन्ते, बू०→आह० आदेशः । आत्थेत्यत्र 'नहाहोर्ध-तौ' (२।१।८५) ह० → त० । बू । वर्त० तिव् । 'बूतः परादिः' (४।३।६३) ईत्० → ई० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ । ‘ओदौतोऽवाव्' (१।२।२४) अव् । ब्रवीषि इत्यत्र ‘बूतः परादिः' (४।३।६३) ईत्, गुणे सति अव् ।
[बूथ बू । वर्त० थ ।।छ।।
आशिषि तु-झोस्तातङ् ।।४।२।११९।। [आशिषि] 'शासूक् अनुशिष्टौ' (१०९५) शास्, आफूर्व० । आशासनमाशीः । 'क्रुत्-संपदादिभ्यः क्विप्' (५।३।११४) क्विप्प० । 'आङः' (४।४।१२०) इति इस्० । सप्तमी ङि ।
[तुहोः] तुश्च हिश्च = तुही, तयोः = तुह्योः । षष्ठी ओस् । [तातङ्] तातङ् प्रथमा सि ।
[जीवताद्वान्, जीवतु भवान्] ‘जीव प्राणधारणे' (४६५) जीव् । पञ्चमी तुव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन तु० → तातङ् आदेशः । 'आशिष्याशीः-पञ्चम्यौ' (५।४।३८) इत्यनेन पञ्चमी ।
[जीवतात् त्वम, जीव त्वम जीव् । पञ्चमी हि । 'कर्त्तर्यनदभ्यः शव' (३।४।७१) शव । अनेन हि० →तात. → तात० । 'अतः प्रत्ययाल्लुक' (४।२८५) हिलोपः । जीवतु-जीव इत्यत्र 'विधि-निमन्त्रणा-ऽऽमन्त्रणा-ऽधीष्ट-सम्प्रश्न-प्रार्थने' (५।४।२८) पञ्चमी ।
डित्करणं युतात् इत्यादौ गुणनिषेधार्थम् ।।छ।।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org