________________
९४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
[वावावः] वा । भृशं पुनः पुनर्वा वयावहे । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यम० । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । द्विः । 'हस्वः' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।११४८) आ । वर्त्त० वस् । अनेन आ दीर्घः ।
[वावामः] वा । भृशं पुनः पुनर्वा वयामहे । 'व्यञ्जनादेरेकस्वराद्' (३।४।९) यङ्प्र० । 'बहुलं लुप्' (३।४।१४) यड्लुप् । द्विः । 'हस्वः' (४1१1३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४/११४८) आ । वर्त० मस् । अनेन आ दीर्घः । 'प्रश्ने च प्रतिपदम्' (७।४।९८) इत्यनेनाऽनन्त्यस्याऽपि मतान्तरे प्लुतः प्राप्नोति, तन्निषेधार्थं दीर्घकरणम् ।
[चिनुवः] 'चिंग्ट चयने' (१२९०) चि । वर्त० वस् । ‘स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । [चिनुमः] चि । वर्त० मस् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । [रुवः] टुक्षु (१०८४) - ‘रु शब्दे' (१०८५) रु । वर्त० वस् । [रुमः] रु । वर्त्त० मस् ।
'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्' (न्या०सं० वक्ष० (१) | सूत्र (१५) इत्यस्य जागरूकत्वान्न 'एषामी व्यञ्जनेऽद:' (४।२।९७) ई० ।
अनतोऽन्तोऽदात्मने ।।४।२१११४।।
[अनतः] न अत् = अनत्, तस्मात् ।
[अन्तः] अन्त् षष्ठी डस् । [अत्] अत् प्रथमा सि । 'दीर्घड्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलोपः ।
[आत्मने] आत्मार्थं पदं = आत्मनेपदम्, तस्य । षष्ठी डस् । ‘ते लुग्वा' (३।२।१०८) पदलोपः । पूर्वं सूत्रत्वात् इस्लोपः ।
[चिन्वते] ‘चिंग्ट् चयने' (१२९०) चि । वर्त्तः अन्ते । ‘स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । अनेन अन्त० → अत्० आदेशः ।
[चिन्वताम्] चि । पञ्चमी अन्ताम् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । अनेन अन्त्० → अत्० आदेशः ।
[अचिन्वत चि । ह्यस्तनी अन्त । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । 'अड् धातोरादि०' (४।४।२९) अट् । अनेन अन्त्० → अत्० आदेशः ।
[लुनते] 'लूग्श् छेदने' (१५१९) लू । वर्त० अन्ते । 'क्यादेः' (३।४७९) श्नाप्र० → ना । 'प्वादेर्हस्वः' (४।२।१०५) इस्वः । ‘श्नश्चाऽऽतः' (४।२।९६) आलुक् । अनेन अन्त्० → अत्० नलोप इत्यर्थः ।
[लुनताम्] लू । पञ्चमी अन्ताम् । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'प्वादेईस्वः' (४।२।१०५) ह्रस्वः । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् । अनेन अन्त्० → अत्० ।
[अलुनत] लू । एस्तनी अन्त । 'क़्यादेः' (३।४।७९) श्नाप्र० → ना । 'प्वादेहूं स्वः' (४।२।१०५) ह्रस्वः । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् । 'अड् धातोरादि०' (४।४।२९) अट् । अनेन अन्त्० → अत् ।
[चिन्वन्ति] चि । वर्त० अन्ति । 'स्वादे: श्नुः' (३।४।७५) श्नुप्र० → नु ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org