SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ ( ३।४।१४ ) यलुप् । 'रि-रौ च लुपि' (४।१।५६ ) “र्” आगमु । आ (अ) रर्त्तीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० → अत् । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१ ) रत् । 'रो रे लुग् दीर्घश्चाऽदिदुतः' (१।३।४१) रलोपः - पूर्वस्य दीर्घः । [चरीकृण्वत् ] 'कृवुट् हिंसा-करणयोः ' (१३१०) कृव् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः । भृशं पुनः पुनर्वा कृणोति । ‘व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) य० । 'सन् - यङश्च' ( ४।१।३) द्विः । ऋतोऽत्' (४।१।३८) ऋ० अ० । ‘क-डञ्श्च-ञ्’ (४।१।४६) क० च० । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । 'रि-रौ च लुपि' (४।१।५६ ) " री” आगमु । चरीकृण्वतीति । 'शत्रानशावेष्यति०' (५।२।२० ) शतृप्र० अत् । [देधिन्वत्] 'धिवुट् गतौ' (१३११) धिव् । 'उदितः स्वरान्नोऽन्तः ' ( ४।४।९८) नोऽन्तः धिन्व् । भृशं पुनः पुनर्वा धिनोति । ‘व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यप्र० । 'सन्-यङश्च' (४1१1३) द्विः । ' बहुलं लुप् ' ( ३।४।१४ ) यलुप् । 'द्वितीयतुर्ययोः पूर्वौ' (४।१।४२) ध० द० । 'आ-गुणावन्यादेः ' ( ४।१।४८) गु० ए । देधिन्वतीति । शतृप्र० । [दर्दृशत्] दृशुं प्रेक्षणे' (४९५) दृश् । भृशं पुनः पुनर्वा पश्यति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) यप्र० । 'सन्यङश्च’ (४।१।३) द्विः । ‘बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । 'रि-रौ च लुपि' (४।१।५६ ) “र्” आगमु । दर्द्रष्टीति । शतृप्र० । [दादत्] 'दां दाने' (७) दा । भृशं पुनः पुनर्वा यच्छति । 'व्यञ्जनादेरेकस्वरा० ' ( ३।४।९) य० । 'बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । 'सन्-यङश्च' (४।१।३) द्विः । ' ह्रस्वः' (४|१|३९) ह्रस्वः । दादातीति । शतृप्र० । 'श्नश्चाऽऽतः ' ( ४।२ ।९६ ) आलोपः ॥ [क्रमः ] क्रम् षष्ठी स् । [ दीर्घः ] दीर्घ प्रथमा सि । [ परस्मै] परार्थं पदं = पदलोपः । ९१ क्रमो दीर्घः परस्मै || ४|२| १०९ ॥ परस्मैपदम्, तस्मिन् = Jain Education International परस्मै । सप्तमी ङि । सूत्रत्वात् डिलोपः । ' ते लुग्वा' (३।२।१०८) [क्रामति, क्राम्यति ] ' क्रमू पादविक्षेपे' (३८५) क्रम् । वर्त्त० तिव् । 'भ्रास - भ्लास-भ्रम-क्रम - क्लम- त्रसि- त्रुटि-लपि-यसि - संयसेर्वा (३।४।७३) विकल्पेन श्यप्र०य । अनेन दीर्घः । [क्रामन्, क्राम्यन्] क्रम् । क्राम्यतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० अत् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१) शव् । अनेन दीर्घः । प्रथमा सि । नोऽन्तः । 'दीर्घङ्याव्० ' (१।४।४५) सिलोपः । ' पदस्य ' (२।१।८९) तलोपः । [क्रामेत्, क्राम्येत्] क्रम् । सप्तमी यात् । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । अनेन दीर्घः । यः सप्तम्याः ' ( ४।२।१२२) या० इ० । 'अवर्णस्येवर्णादिनैदोदर ' (१।२।६) ए । [आक्रमते सूर्यः] क्रम्, आडपूर्व० । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'आझे ज्योतिरुद्गमे' ( ३ । ३ । ५२ ) इत्यात्मनेपदम् । [ आक्रममाणः ] आक्रमते । 'शत्रानशावेष्यति०' (५।२।२० ) आनश्प्र० आन । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) इदमुदाहरणं वृहद्वृत्तौ नास्ति । For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy