________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [प्रयच्छति ] 'दां दाने' (७) दा, प्रपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शब् । अनेन यछ्० । [प्रयच्छन् ] प्रयच्छतीति । 'शत्रानशावेष्यति०' (५।२।२० ) शतृप्र० अत् । शेषं सुगमम् ।
[ दास्या संप्रयच्छमानः ] दासी तृतीया टा । संप्रयच्छते । 'शत्रानशावेष्यति०' (५।२।२० ) आनश्प्र० आन । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'अतो म आने ' ( ४|४|११४) मोऽन्तः । अनेन यछ्० ।
९०
[पश्यति ] 'दृशृं प्रेक्षणे' (४९५) दृश् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । अनेन "पश्य” आदेशः । [पश्यन् ] पश्यतीति । 'शत्रानशावेष्यति०' (५।२।२० ) शतृप्र० । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । अनेन " पश्य" आदेश: ।
[उत्पश्यः] उत्पश्यतीति । 'घ्राध्मा-पा- दूधे दृशः शः' (५/१/५८) शप्र० अ । अनेन “पश्य" आदेशः । [ ऋच्छति ] 'ऋ प्रापणे च' (२६) ॠ । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । अनेन ऋछ्० । [ऋच्छन् ] ऋच्छतीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् । कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । अनेन ऋछ्० ।
[समृच्छमानः ] समृच्छते । 'शत्रानशावेष्यति०' (५/२/२०) आनश्प्र० आन । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । 'अतो म आने' ( ४|४|११४ ) मोऽन्तः । अनेन ऋछ्र० । 'लुगस्या०' (२।१।११३) अलोपः ।
[शीयते] 'शदलं शातने' (९६७) शद् । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । अनेन शीय० । 'शदेः शिति' ( ३ | ३ | ४१) आत्मनेपदम् ।
[शीयमानः ] शीयते । 'शत्रानशावेष्यति०' (५।२।२० ) आनश्प्र० आन । 'कर्त्तर्यनद्भ्यः शब्' (३।४।७१ ) शव् । ‘अतो म आने' ( ४|४|११४ ) मोऽन्तः । अनेन " शीय" आदेशः ।
[सीदति] 'पद्ॡ विशरण-गत्यवसादनेषु' (९६६ ) षद् । 'पः सोऽष्ट्यै- ष्ठिव - ष्वष्कः' (२।३।९८) सद् । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । अनेन "सीद" आदेशः ।
[पान्] 'पांक् रक्षणे' (१०६७) पा । पातीति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् । प्रथमा सि । नोऽन्तः । 'दीर्घड्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः ।
[इय्रत्] 'ऋक् गतौ' (११३५ ) ऋ । इयर्त्तीिति । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् । 'हवः शिति' (४।१।१२) “ऋ”द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । पृ-भृ-मा- हाङामिः ' ( ४३१।५८) इ । 'पूर्वस्यास्वे स्व योरियुक्' (४।१।३७ ) इय् । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) रत्वम् ।
[शोश्रुवत्] 'श्रुंट् श्रवणे' (१२९६) श्रु । भृशं पुनः पुनर्वा शृणोति । 'व्यञ्जनादेरेकस्वरा०' ( ३।४।९) य० । 'सन्-यडश्च' (४।१।३) "श्रु द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'आ-गुणावन्यादेः' (४।१।४८) गु० ओ । ‘बहुलं लुप्’ (३।४।१४ ) यङ्लुप् । शोश्रोतीति । 'शत्रानशावेष्यति०' (५।२।२० ) शतृप्र० → अत् । 'संयोगात्' (२।१।५२) उब् ।
[आरत्] 'क्रं प्रापणे च' (२६) ॠ । भृशं पुनः पुनर्वा इयर्त्ति (?) (ऋच्छति ) । ' अट्यर्त्ति - सूत्रि - मूत्रि-सूच्यशूर्णोः ' ( ३।४।१० ) य० । द्विः । 'ऋतोऽत्' (४।११३८ ) ऋ० अ० । आ-गुणावन्यादेः (४।१।४८) आ प्रथमं 'बहुलं लुप्'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org