________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [कतीह धावमानाः ] कति प्रथमा जस् । इह प्रथमा सि । 'सृ गतौ ' (२५) सृ । वेगेन सर्तुं शक्तः । ' वयः-शक्तिशीले' (५।२।२४) शानप्र० आन । अनेन धाव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शव् । 'अतो म आने' (४|४|११४ )
मोऽन्तः ।
८८
[प्रियामनुसरति] प्रिया द्वितीया अम् । सृ, अनुपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[सस्रुत्, सरीस्रत्, सरिस्रत्] सृ । भृशं पुनः पुनर्वा सरति । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' ( ३।४१९) यङ्ग्य्र० । ‘सन्-यडश्च' (४।१।३) द्वि: । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'बहुलं लुप्' (३|४|१४) यङ्लुप् । 'रिरौ च लुपि' (४।१।५६) "र्-री- रि" आगमु । सर्सरीतीति । सरीसरीतीति । सरिसरीतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० अत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः' । 'अन्तो नो लुक्' (४।२।९४ ) नलुक् । 'दीर्घङ्याव्-व्यञ्जनात् सेः' (१।४।४५ ) सिलुक् ||छ ।
श्रौति-कृवु-धिवु-पा-घ्राध्मा-स्था-म्ना-दाम् - दृश्यर्त्ति-शद-सदः
शृ-कृ-धि-पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्यर्च्छ-शीय-सीदम् ||४|२|१०७ ||
[श्रौतिकृबुधिवुपाघ्राध्मास्थाम्नादाम्दृश्यर्त्तिशदसदः ] श्रीतिश्च कृवुश्च धिवश्च पाश्च घाश्च ध्माश्च स्थाश्च म्नाश्च दाम् च दृश् च (दृशिश्च) अर्त्तिश्च शदश्च सद् च = श्रौतिकृवुधिवुपाघ्राध्मास्थाम्नादाम्दृश्यर्त्तिशदसद्, तस्य ।
[शृकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छशीयसीदम् ] शृश्च कृश्च धिश्च पिवश्च जिघ्रश्च धमश्च तिष्टश्च मनश्च यच्छश्च पश्यश्च ऋच्छश्च शीयश्च सीदश्च = शृकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छशीयसीदम् । प्रथमा सि ।
[शृणोति] 'श्रुंट् श्रवणे' (१२९६) श्रु । वर्त्त० तिव् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० नु । अनेन "शृ” आदेशः । ' उ-श्नो:' ( ४।३।२) गु० ओ ।
[शृण्वन्] श्रु । शृणोतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२० ) शतृप्र० → अत् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० नु । अनेन "शृ" आदेशः । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) वत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'पदस्य' (२।१।८९) तलोपः । ' दीर्घड्याब्०' (१।४।४५) सिलुक् ।
[कृणोति ] 'कृवुट् हिंसा-करणयोः ' (१३१०) कृव् । वर्त्त० तिव् । 'स्वादेः श्नुः' (३।४।७५ ) श्नुप्र० नु । अनेन "कृ" आदेश: । 'उ-श्नोः' (४।३।२) गु० ओ ।
[कृण्वन्] कृणोतीति कृण्वन् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् । ' स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । अनेन "कृ" आदेशः । 'इवर्णादेरस्वे० ' (१।२।२१) वत् । प्रथमा सि । 'ऋदुदितः ' (१।४।७०) नोऽन्तः । 'पदस्य' (२।१।८९) तलोपः । 'दीर्घड्याब्०' (१।४।४५) सिलुक् ।
[धिनोति] 'धिवुट् गतौ ' (१३११) धिव् । वर्त्त० तिव् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० नु । अनेन “धि" आदेशः । ' उ-श्नोः' (४।३।२) गु० ओ ।
[धिन्वन्] धिनोतीति । ‘शत्रानशावेष्यति०' (५।२।२०) शतृप्र० अत् । ' स्वादेः श्नुः' (३।४।७५ ) श्नुप्र० नु । अनेन “धि” - आदेशः । ' इवर्णादेरस्वे० ' (१।२।२१) वत् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । ' पदस्य' (२।१।८९) तलोपः । ' दीर्घड्याब्०' (१।४।४५) सिलुक् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org