________________
२६१
[ कपोलपाली ] कपोली पालीव ।
[ उरः कपाटः ] उरः कवाड (पाट) इव ।
[ स्तनतटम् ] स्तनौ स्तन ( तट) मिव ।
[कालाक्षी शा] काल-अक्षिन् । कालेऽक्षिणी यस्याः सा । 'सक्त्थ्यक्ष्णः स्वाङ्गे' (७|३|१२६) टः समासान्तः अ । ‘अवर्णेवर्णस्य' (७।४।६८) अन्त्यस्वरादिलोपः । 'अणञेयेकण्- नञ्- स्रञ्- टिताम्' (२।४।२० ) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलोपः ॥छ ||
चतुष्पाद् गर्भिण्या ||३|१ ।११२ ।।
[ चतुष्पाद् ] चतुर्-पाद । चत्वारः पादा यस्याः सा । 'सु- संख्यात् ' ( ७।३।१५०) पादस्य पात् । 'निर्दुर्वहिराविष्प्रादुश्चतुराम्' (२।३।९) २० ष० ।
[ अजगर्भिणी] अजा चासौ गर्भिणी च ।
[महिषगर्भिणी] महिष 'जातेरयान्त- नित्यस्त्री-शूद्रात् ' (२।४।५४) डी। महिषी चासौ गर्भिणी च । 'पुंवत् कर्मधारये ' ( ३।२।५७) पुंवत् ।
[ कालाक्षी गर्भिणी] कालेऽक्षिणी यस्याः सा ॥छ ।
[खलतिपलितजरद्बलिनैः] खलतिश्च पलितश्च जरच्च वलिनश्च
[ युवखलतिः ] युवा चासौ खलतिश्च ।
[ युवपलितः ] युवा चासौ पलितश्च ।
युवा खलति पलित- जरद्-वलिनैः ।।३।१ ।११३।।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
=
[ युवजरन्] युवा चासौ जरंश्च ।
[युववलिनः] वलयोऽस्य सन्ति । 'नोऽङ्गादेः ' ( ७।२।२९) नप्र० । युवा चासौ वलिनश्च ।
[ युवपलिता ] युवन् । यूनां = युवतिः । 'यूनस्तिः ' (२।४।७७) तिप्र० । युवतिश्चासौ पलिता च ।
खलतिपलितजरवलिनाः, तैः ।
[युवजरती] 5 जिं (८) 'जूं अभिभवे' (९) नृ । जरतीति । 'शत्रानशावेष्यति तु सस्यौ (५।२।२० ) शतृप्र० अत् । ‘नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'अधातूदृदितः ' (२।४।२) डी । युवतिश्चासौ जरती च ।
[युववलिना] युवतिश्चासौ वलिना च । 'पुंवत् कर्मधारये ' ( ३।२।५७) पुंवत् युवन् इति ॥ छ ॥
5 धातुपारायणे अन्ये तु जिंस्थाने जूं इति ऋकारान्तं पठन्ति । P + तुल्यस्य आख्या - तुल्याख्या, कृत्यश्च तुल्यारव्या च तत् ।
Jain Education International
कृत्य- तुल्याख्यमजात्या ||३|१|११४ ||
[कृत्यतुल्याख्यम् ] + तुल्य इति आख्या यस्य सः । 'गोश्चान्ते० ' (२१४१९६) ह्रस्वः । कृत्यश्च तुल्याख्यश्च कृत्यतुल्याख्यम् ।
[ अजात्या ] न जानाति, तया । 'नञत्' (३।२।१२५) न० अ० ।
[भोज्यलवणम् ] 'भुजंप् पालना-ऽभ्यवहारयोः' (१४८७) भुज् । भुज्यत इति । 'ऋवर्ण व्यञ्जनाद् घ्यण्' (५।१।१७)
'नृष् जरसि (११४५) ज् । जीर्यति स्म । 'नृषोऽतृः' (५।१।१७३) अतृप्रत्ययेऽपि जरती भवति ।
For Private Personal Use Only
www.jainelibrary.org