________________
अथ तृतीयाऽध्यायस्य प्रथमः पादः ।।
२३४
(२।२।८३) षष्ठी । - [तत्त्वानुचिन्तनम् अनु 'चितुण स्मृत्याम्' (१६४५) चित् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) चिन्त् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०→इ । अनुचिन्त्यते । “णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः' (५।३।१११) अनप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । तत्त्वानामनुस्मरणम् ।
[सर्पिनिम्] सर्पिषो ज्ञानम् ।
[एधोदकोपस्करणम्] उप 'डुबंग करणे' (८८८) कृ । 'उपाद् भूषा-समवाय-प्रतियत्न-विकार-वाक्याऽध्याहारे' (४।४।९२) सडागमः । उपस्क्रियते । 'अनट्' (५।३।१२४) अनट्प्र०→अन | एधाश्च उदकं च = एधोदकम् । एधोदकस्योपस्करणम् ।
[चौरोज्जासनस्] 'जसण ताडने' (१७५८) जस्, उत्पूर्व० । 'चुरादिभ्यो णिच' (३।४।१७) णिचप्र०→इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । उज्जास्यते । ‘णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः' (५३१११) अनप्र० । ‘णेरनिटि' (४।३।८३) णिचलोपः । चौरस्योज्जासनम् ॥छ।।
याजकादिभिः ।।३।१७८|| [याजकादिभिः] 'यी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजन्तं प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिगप्र० । याजयतीति । ‘णक-तृचौ' (५।१।४८) णकप्र०→अक । याजक आदिर्येषां तानि = याजकादीनि, तैः ।
[बाह्मणयाजकः] 'यजी देवपूजा-सङ्गतिकरण-दानेषु' (९९१) यज् । यजतीति । ‘णक-तृचौ' (५।१।४८) णकप्र०-अक । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । ब्राहाणानां याजकः ।
[गुरुपूजकः] 'पूजण् पूजायाम्' (१५८६) पूज् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०-→इ । पूजयतीति । ‘णकतृचौ' (५।१।४८) णकप्र०→अक । ‘णेरनिटि' (४।३।८३) णिच्लोपः । गुरूणां पूजकः ।
[गुरुसदृशः] गुरूणां सदृशः । 'तुल्यार्थस्तृतीया-षष्ठ्यौ' (२।२।११६) षष्ठी ।
[अन्यत्कारकम्] अन्य 'डुबंग करणे' (८८८) कृ । अन्यस्य कारकं करोतीति । ‘णक-तृचौ' (५।११४८) णकप्र० →अक । 'नामिनोऽकलि-हलेः' (४।३५१) वृद्धिः आर् । प्रथमैक० सि । ‘अतः स्यमोऽम्' (१।४।५७) अम् । 'समानादमोऽतः' (१।४।४६) अलोपः । 'ईय-कारके' (३।२।१२१) दोऽन्तः ।
[विश्वगोप्ता] विश्वस्य गोप्ता । [तीर्थकर्ता] तीर्थस्य कर्ता । [तत्प्रयोजको हेतुः] तस्य प्रयोजकः । [जनिकर्तुः प्रकृतिः] जनेः कर्ता = जनिकर्ता, तस्य ।।छ।।
पत्ति-रथौ गणकेन ।।३।१७९।। [पतिरथौ] पत्तिश्च रथश्च = पत्तिरथौ ।
[पत्तिगणकः] 'गणण् संख्याने' (१८७४) गण । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र०→इ । 'अतः' (४।३।८२) अलोपः । गणयतीति । 'णक-तृचौ' (५।१।४८) णकप्र०→अक । ‘णेरनिटि' (४।३।८३) णिच्लोपः । पत्तीनां गणकः ।
[रथगणकः] रथानां गणकः । [ज्योतिर्गणकः] ज्योतिषां गणकः । ‘अकेन क्रीडा-ऽऽजीवे' (३।१।८१) समासः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org