SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ।। अर्हम् ।। ॥ अथ तृतीयाऽध्यायस्य प्रथमः पादः ॥ धातोः पूजार्थस्वति-गतार्थाधिपर्यतिक्रमाातिवर्जः प्रादिरुपसर्गः प्राक् च ।।३।११।। [धातोः] 'डुधांगक् धारणे च' (११३९) धा । दधाति क्रियाभिधानव्यक्तिमिति धातुः । 'कृ-सि-कम्यमि-गमि-तनि-मनिजन्यसि-मसि-सच्यवि-भा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि-क्रुशि-पूभ्यस्तुन्' (उणा० ७७३) तुन्प० । तस्य तस्माद्वा । [पूजार्थस्वतिगतार्थाधिपर्यतिक्रमाातिवर्जः] सुश्च अतिश्च = स्वती, पूजा अर्थो ययोस्तौ = पूजार्थों, पूजार्थो च तौ स्वती च = पूजार्थस्वती । अधिश्च परिश्च = अधिपरी, गतमर्थो ययोस्तौ = गतार्थों, गतार्थों च तौ अधिपरी च = गतार्थाधिपरी । अतिक्रमोऽर्थो यस्याऽसौ अतिक्रमार्थः, अतिक्रमार्थश्वासावतिश्च = अतिक्रमाऽर्थातिः, पूजार्थस्वती च गतार्थाधिपरी च अतिक्रमार्थातिश्च = पूजार्थस्वतिगतार्थाधिपर्यतिक्रमााति(त)यः । 'वृजैण् वर्जने' (१९५५) वृज् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प०→इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । पूजार्थस्वतिगतार्थाधिपर्यतिक्रमार्थातीन वर्जयतीति । 'कर्मणोऽण्' (५।१७२) अण्प्र०→अ । ‘णेरनिटि' (४।३।८३) णिच्लोपः । [प्रादिः] प्र आदिर्यस्याऽसौ प्रादिः । [उपसर्गः] उप-समीपे धातोः भूत्वा सृज्यते इत्युपसर्गः । [प्रणयति] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी, अनेन प्रपूर्व० । वर्त्तः तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । ‘एदैतोऽयाय' (१।२।२३) अय् । 'अदुरुपसर्गाऽन्तरो ण-हिनु-मीनाऽऽनेः' (२।३।७७) न०→ण० । परिणयति] 'णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७) नी, अनेन परिपूर्व० । वर्त्तः तिव । 'कर्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'अदुरुपसर्गाऽन्तरो ण-हिनु-मीनाऽऽनेः' (२।३।७७) न०→ण० । [अभिषिञ्चति] 'षिचीत् क्षरणे' (१३२१) षिच् । 'षः सोऽष्टयै-ष्टिव-ष्वष्कः' (२।३।९८) सिच्, अनेन अभिपूर्व० । वर्त्त० तिव् । 'तुदादे: शः' (३।४।८१) शप्र०→अ । 'मुचादि-तृफ-दृफ-गुफ०' (४।४।९९) नोऽन्तः । [प्रलम्भः] 'डुलभिंष् प्राप्तौ' (७८६) लभ्, अनेन प्रपूर्व० । प्रलम्भनम् । 'भावा-ऽकोंः ' (५/३/१८) घञ्प्र०→अ । 'उपसर्गात् खल्घञोश्च' (४।४।१०७) नोऽन्तः । P卐 गतस्वाऽर्थो (ों) ययोस्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy