________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । ( ६ | ३ |६७) अञ्प्र० अस्मद् ममकादेशः । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । ' वृद्धिः स्वरेष्वादे० ' (७।४।१ ) वृद्धिः । 'आत्' (२।४।१८) आप्प्र ० आ । अनेन इ ।।छ।।
१९१
तारका- वर्णका - ऽष्टका ज्योतिस् तान्तव-पितृदेवत्ये || २|४|११३ ||
[तारकावर्णकाऽष्टका ] तारका च वर्णका च अष्टका च = तारकावर्णकाऽष्टका । + प्रथमा सि । सूत्रत्वाल्लोपः । [ ज्योतिस्तान्तवपितृदेवत्ये] ज्योतिश्च तान्तवश्च पितृदेवत्यं च = ज्योतिस्तान्तवपितृदेवत्यम्, तस्मिन् ।
[तारका ज्योतिः ] 'तृ प्लवन-तरणयोः ' (२७) तृ । तरतीति । 'णक-तृचौ ' ( ५।१।४८ ) णकप्र० - अक । 'नामिनोऽकलिहले:' ( ४|३|५१) वृद्धि: आर् । 'आत्' (२।४।१८) आप्प्र ० आ । अन्यत्र “तारिका" ।
[वर्णका तान्तवः प्रावरणविशेषः ] 'वर्णण् वर्णक्रिया- विस्तार-गुणवचनेषु' (१८७०) वर्ण । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० इ । 'अतः ' ( ४ | ३ |८२) अलोपः । वर्णयतीति । 'णक-तृचौ' (५।१।४८ ) णकप्र० अक । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र ० आ । अन्यत्र " वर्णिका " ।
[ अष्टका पितृदेवत्यं कर्म] 'अशौटि व्याप्तौ ' (१३१४) अश् । अश्नुत इति । 'इष्यशि-मसिभ्यस्तकक्' (उणा० ७७) तक तक । 'यज- सृज - मृज-राज-भ्राज-भ्रस्ज- वस्व-परिव्राजः शः षः ' (२।१।८७) श० ष० । ' तवर्गस्य श्ववर्ग०' (१।३।६०) त०ट० । 'आत्' (२।४।१८) आप्प्र० आ । पितैव देवता = पितृदेवता, पितृदेवतार्थं कर्म । 'देवतान्तात् तदर्थे' (७।१।२० ) प्र० । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानाद० ' (१।४।४६ ) अलोपः । अन्यत्र " अष्टिका खारी" अष्टन् । अष्टौ द्रोणाः परिमाणमस्या ( : ) सा = अष्टिका । 'शेषाद् वा ' ( ७।३।१७५ ) कच्प्र० - क, (?) । ('संख्या ऽतेश्चाऽशत्-ति-ष्टेः कः ' ( ६।४।१३०) कप्र०) । 'आत्' (२।४।१८) आप्प्र ० आ । 'अस्याऽयत्-तत्- क्षिपकादीनाम् ' (२|४|१११ ) इ । खारी प्रथमा सि । 'दीर्घड्याब्० ' (१।४।४५) सिलोपः ॥ छ ||
P + तत् ।
Jain Education International
॥ इत्याचार्य श्रीहेमचन्द्रविरचितायां बृहद्वृत्तौ द्वितीयस्याध्यायस्य चतुर्थ: पाद: - - द्वितीयोऽध्यायः संपूर्णः ॥
P 5 पितृदेवतायै इदं कर्म ।
For Private Personal Use Only
www.jainelibrary.org