________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । [ पुत्रिका, पुत्रका ] पुत्र । कृत्रिमः पुत्रः = पुत्रकः, स्त्री चेत् = पुत्रिका । 'तनु - पुत्रा - ऽणु- बृहती - शून्यात् सूत्र - कृत्रिम - निपुणा - SSच्छादन०' (७।३।२३) कप्र० । 'आत्' (२।४।१८) आप्प्र० । अनेन इ ।
[वृन्दारिका, वृन्दारका] वृन्द ।
वृन्दमस्याऽस्तीति । 'वृन्दादारकः ' ( ७।२1११ ) आरकप्र० । 'अवर्णवर्णस्य'
( ७|४|६८) अलोप: । 'आत्' (२।४।१८) आप्प्र० आ । अनेन इ ।
१८९
[ एषिका ] 'इषत् इच्छायाम्' (१४१९) इष् । इच्छतीति । 'णक-तृचौ ' ( ५।१।४८ ) णकप्र० अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'आत्' (२।४।१८) आप्प्र० आ । अस्याऽयत्०' (२।४।१११ ) इ ।
[ एतिकाः ] एता एव । 'यावादिभ्यः कः' ( ७।३।१५) कप्र० । 'आत्' (२।४।१८) आप्प्र ० आ । 'अस्याऽयत्०' (२|४|१११ ) इ ।।छ ।
वौ वर्तिका || २|४|११० ॥
[वर्तिका, वर्तका - शकुनिः ] 'वृतूङ् वर्त्तने' (९५५) वृत् । वर्त्तत इति । 'णक-तृचौ ' ( ५।१।४८) णकप्र० अक । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'आत्' (२।४।१८) आप्प्र ० आ । अनेन इ ।
[वर्तिका - भागुरिलोकायतस्य व्याख्यात्रीत्यर्थः] वृत् । वर्त्तमानं प्रयुङ्क्ते । 'प्रयोक्तृव्या० ' ( ३।४।२० ) णिग्प्र० । वर्त्तयतीति । 'णक-तृचौ' (५।१।४८) णकप्र० अक । 'आत्' (२१४११८) आप्प्र० आ । 'अस्याऽयत्० ' (२|४|११ )
इ । । छ । ।
अस्याऽयत्-तत्- क्षिपकादीनाम् ||२|४|१११ ।।
=
[ अयत्तत्क्षिपकादीनाम् ] क्षिपक आदिर्येषां ते क्षिपकादयः, यच्च तच्च क्षिपकादयश्च = यत्तत्क्षिपकादयः, न यत्तत्क्षिपकादयः = अयत्तत्क्षिपकादयस्तेषाम्
[जटलिका ] जटा । जटा अस्य सन्ति । 'काला - जटा घाटात् क्षेपे' (७।२।२३) इलप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अन्त्यस्वरादिलोपः । ‘आत्' (२।४।१८) आप्प्र० आ । कुत्सिताऽल्पाऽज्ञाता वा जटिला जटिलिका | 'कुत्सिता - ऽल्पाSज्ञाते' (७।३।३३) कप्प्र० क । 'आत्' (२।४।१८) आप्प्र ० आ । अनेन इ ।
[बधिरिका ] कुत्सिताऽल्पाऽज्ञाता वा बधिरा बधिरिका । 'कुत्सिता - ऽल्पा - ऽज्ञाते' (७।३।३३) कप्प्र ० क । 'आत्' (२।४।१८) आपप्र० । अनेन इ ।
=
[ मुण्डिका ] कुत्सिताऽल्पाऽज्ञाता वा मुण्डा = मुण्डिका । कुत्सिता - ऽल्पा ऽज्ञाते' (७।३।३३) कप्प्र० क । 'आत्' (२।४।१८) आप्प्र ० आ । अनेन इ ।
=
[कारिका ] 'डुकंग करणे' (८८८) कृ । करोतीति । 'णक-तृचौ' (५।१।४८ ) णकप्र० अक । 'नामिनो ऽकलि-हले ः ' ( ४ | ३ |५१) वृद्धिः आर् । 'आत्' (२।४।१८) आप्प्र ० आ । अनेन इ ।
Jain Education International
[ पाचिका ] 'डुपचष् पाके' (८९२) पच् । पचतीति । 'णक-तृचौ ' ( ५।११४८ ) णकप्र० - अक । 'ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । 'च-जः क- गम्' (२।१।८६) च० क० । 'आत्' (२।४।१८) आप्प्र० । अनेन इ ।
[मद्रिका ] मद्रेषु भवा = मद्रिका | 'वृजि-मद्राद् देशात् कः' ( ६ | ३ | ३८) कप्र० । 'आत्' (२।४।१८) आप्प्र ० आ । अनेन इ ।
[गोका ] गो । कुत्सिता गौः गोका । कुत्सिताऽल्पा - ऽज्ञाते' (७।३।३३) कप्प्र ० क । 'आत्' (२१४११८)
आप्प्र ० आ ।
P + प्रशस्तं वृन्दमस्याऽस्ति ।
=
For Private Personal Use Only
www.jainelibrary.org