________________
शस्त्रपत्रं तस्य ।
[शस्त्रपत्रस्योपस्कुरुते, शस्त्रपत्रमुपस्कुरुते ] शस्त्रं च पत्रं च = [एधोदकस्योपस्कुरुते बुद्धया ] एधाश्च उदकं च = एधोदकं, तस्य । अप्राणि-पश्वादेः' (३|१|१३६) एकत्वम् छ
[ रुजार्थस्य ] रुजा अर्थो यस्याऽसौ रुजार्थस्तस्य = रुजार्थस्य ।
[ अज्वरिसन्तापेः ] ज्वरिश्च सन्तापिश्च
न० अ० तस्य ।
रुजार्थस्याऽज्वरि-सन्तापेर्भावे कर्तरि ॥ २ ॥२॥१३॥
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
=
ज्वरिसन्तापि, न ज्वरिसन्तापि = अज्वरिसन्तापि । नञत्' ( ३।२।१२५)
[ भावे कर्तरि ] भाव सप्तमी ङि । कर्तृ सप्तमी ङि । 'अर्कै च' (१।४।३९ ) अर् ।
[ चौरस्य रुजति, चौरं रुजति रोगः ] 'रुजत् भङ्गे' (१३५०) रुज् । वर्त्त० तिव् । 'तुदादेः श:' ( ३।४।८१) शप्र० → अ । रोग प्रथमा सि ।
[ अपथ्याशिनां रुज्यते रोगेण, अपथ्याशिनो रुज्यन्ते रोगेण] अपथ्य । 'अशश् भोजने' (१५५८) अश् । अपथ्यमश्नन्तीत्येवंशीलास्ते = अपथ्याशिनस्तेषाम् । 'अजातेः शीले' (५।१ । १५४) णिन्प्र० । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः ।
[चौरस्य रुग्णम्, चौरो रुग्णः] रुज्यते स्म । 'गत्यर्था ऽकर्मक-पिब-भुजेः' (५1१199) क्तप्र० त । 'सूयत्याद्योदितः’ (४।२।७०) त० → न० । 'रपृवर्णान्नो ण० ' (२।३।६३) न० ० | 'च-जः क- गम्' (२।१।७६) ज०म० । [ चौरस्यामयति, चौरमामयति रोगः ] 'अमण् रोगे' (१७४७ ) अम् । 'चुरादिभ्यो णिच्' ( ३।४।१७ ) णिच्प्र० । 'ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः ।
[ चौरस्य व्यथयति, चौरं व्यथयति रोगः ] 'व्यथिष् भयचलनयोः ' (१००२) व्यथ् । व्यथमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० ।
Jain Education International
[ चौरस्य पीडयति, चौरं पीडयति रोगः ] 'पीडण् गहने' (१६२५) पीड् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । वर्त्त० तिव् । 'कर्त्तर्यन०' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[आद्यूनं ज्वरयति] आद्यून द्वितीया अम् । 'ज्वर रोगे' (१०५४) ज्वर् । ज्वरति रोगः, तं ज्वरन्तं रोगमन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२० ) णिग्प्र० । 'णिति' ( ४।३।५० ) उपान्त्यवृद्धिः । 'घटादेर्ह्रस्वो दीर्घस्तु वा ञि- णम्परे' ( ४।२।२४) ह्रस्वः । वर्त्त० तिव् ॥ छ ॥
जास-नाट - क्राथ-पिषो हिंसायाम् || २|२|१४||
[जासनाटक्राथपिषः ] जासश्च नाटश्च क्राथश्च पिष् च = जासनाटक्राथपिष्, तस्य । [हिंसायाम् ] हिंसा सप्तमी ङि । 'आपो डितां यै० ' (१।४।१७) याम् ।
[ चौरस्योज्जासयति, चौरमुज्जासयति ] 'जसण् ताडने ' (१७५८) जस्, उत्पूर्व० । 'चुरादिभ्यो णिच्' ( ३।४।१७ ) णिच्प्र० । ‘ञ्णिति’ (४।३।५०) उपान्त्यवृद्धिः । 'धुटस्तृतीयः' (२।१।७६) त० द० । ' तवर्गस्य श्चवर्ग० ' (१।३।६० ) द० ज० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ चौरस्योज्जास्यते, चौर उज्जास्यते चैत्रेण] 'जसण् ताडने' (१७५८) जस्, उत्पूर्व० । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । ‘ञ्णिति' (४।३ । ५० ) उपान्त्यवृद्धिः । ' धुटस्तृतीयः ' (२।१।७६) त० द० । ' तवर्गस्य ० ' (१।३।६०) द० ज० । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । णेरनिटि' (४।३।८३) णिज्लोपः ।
For Private Personal Use Only
www.jainelibrary.org