________________
१३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
RamRNA
(१।२।२१) यत्वम् । अनेन र०→ल० ।
[निलयनम्] निर्-अयन । निश्चितमयनम् । 'ऋफिडादी०' (२।३।१०४) र०→ल० । [दुलयनम] दुष्टमयनम् । 'ऋफिडादीनां डश्च लः' (२।३।१०४) र०→ल० ।
[प्रायः] प्र 'इंण्क गतौ' (१०७५) इ । प्रेयते । 'भावा-ऽकोंः ' (५।३।१८) घजप्र०→अ । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।
[परायः] परा 'इंण्क् गतौ' (१०७५) इ । परेयते । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र०→अ । 'नामिनोऽकलिहलेः' (४।३५१) वृ० ऐ । 'एदैतोऽयाय' (१।२।२३) आय् ।।छ।।
ग्रो यङि ।।२।३।१०१।। [ग्रः] गृ षष्ठी डस् । [यङि] यङ् सप्तमी ङि ।
[निजेगिल्यते] नि 'गृत् निगरणे' (१३३५) गृ । गर्हितं निगिरति । 'गृ-लुप-सद-चर-जप-जभ-दश-दहो गयें' (३।४।१२) यम०→य । 'ऋतां विडतीर्' (४।४।११६) इर् । 'सन्-यडश्च' (४।१।३) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘ग-होर्जः' (४।१।४०) गि०→जि० । 'आ गुणावन्यादेः' (४।१।४८) गु० ए । अनेन र०
→ल० ।।छ।।
नवा स्वरे ।।२।३।१०२।। [नवा नवा प्रथमा सि । [स्वरे] स्वर सप्तमी ङि ।
[गिलति, गिरति] 'गृत् निगरणे' (१३३५) गृ । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र०→अ । 'कृतां विडतीर्' (४।४।११६) गिर् ।
[निगलनम्, निगरणम्] निगीर्यते । 'अनट' (५।३।१२४) अनट्प०→अन । 'नामिनो गुणो०' (४।३।१) गु० अर् ।
[निगालकः, निगारकः] निगिरतीति । ‘णक-तृचौ' (५।११४८) णकप्र० → अक० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । अनेन र०→ल० ।
[निगीर्णः] निगीर्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र०→त । 'ऋतां क्डितीर्' (४।४।११६) गिर् । भरदादमूर्च्छमदः क्तयोर्दस्य च' (४।२।६९) त०→न० । ‘रपृवर्णान्नो ण०' (२।३।६३) न०→ण | 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः ।
[निगीर्णवान्] निगीर्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र०→तवत् । शेषं 'निगीर्णः' वत् ।
[निगाल्यते, निगार्यते] नि 'गृत् निगरणे' (१३३५) गृ । निगिरन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र०→इ । 'नामिनोऽकलिहलेः' (४।३।५१) वृ० आर् । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । ‘णेरनिटि' (४।३।८३) णिगलोपः । अनेन र०→ल० ।
[गिरौ] गिरत इति क्विप् गिरौ । 'ऋतां क्डितीर्' (४।४।११६) इर् । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
P'
धातुपारायणे-क्रियारत्नसमुच्चये-श० म० न्यासानुसन्धाने 'ऋ-ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org