SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयाऽध्यायस्य तृतीयः पादः ॥ १२७ [क्षुभ्नानः] क्षुभ् । क्षुभ्नातीत्येवंशीलः । 'वयःशक्ति-शीले' (५।२१२४) शानप्र० → आन । 'क्यादेः' (३।४।७९) श्नाप्र०→ना । 'समानानां तेन दीर्घः' (१४२११) दीर्घः । [तृप्नोति] 'तृपट प्रीणने' (१३०८) तृप । वर्त्तः तिव्' । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र०→नु । 'उ-श्नोः' (४।३।२) गु० ओ । [तृप्नुतः] 'तृपट प्रीणने' (१३०८) तृप् । वर्त्त० तस् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र०→नु । [तृप्नुवन्ति] 'तृपट प्रीणने' (१३०८) तृप् । वर्त० अन्ति । ‘स्वादेः श्नुः' (३।४।७५) श्नुप्र०→नु । 'भू-श्नोः' (२१११५३) उव् । तृप्नुवन्] तृप् । तृप्नोतीति । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र०-→अत् । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र०→नु । 'भू-श्नोः' (२।११५३) उव् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । दीर्घड्याब०' (१।४।४५) सिलोपः । [तृप्नुवानः] तृप् । तृप्नोतीत्येवंशीलः । ‘वयः शक्ति-शीले' (५।२।२४) शानप्र०→आन । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र०→नु । 'भू-श्नोः' (२।१।५३) उव् । [आचार्यानी] आचार्यस्य भार्या = आचार्यानी । 'मातुला-ऽऽचार्योपाध्यायाद् वा' (२१४६३) डीप्र० - आनन्तश्च । [आचार्यभोगीनः] आचार्यभोगाय हितः । “भोगोत्तरपदा-ऽऽत्मभ्यामीनः' (७।१।४०) ईनप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । [नृनमनः] नृ ‘णमं प्रह्वत्वे' (३८८) णम् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नम् । नमन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप०→इ । 'ञ्णिति' (४१३५०) उपान्त्यवृद्धिः । ‘अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । नृन् नमयतीति । 'नन्द्यादिभ्योऽनः' (५।११५२) अनप्र० । ‘णेरनिटि' (४१३१८३) णिगलोपः । [दर्भानुपः] अनु-अप । अनुगता आपो यत्र तत । 'ऋक-पू:-पथ्यपोऽत' (७३७६) अत्समासान्तः । 'अनो (३।२।११०) उप आदेशः । दर्भस्याऽनूपः । [सुप्रख्येन] सु-प्र ‘ख्यांक प्रकथने' (१०७१) ख्या । सुप्रख्यायते । 'उपसर्गादातो डोऽश्यः' (५।१।५६) डप्र०-→अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलोपः, तेन ।।छ।। पाठे धात्वादेर्णा नः ॥२।३।९७।। [धात्वादेः] धातोरादिर्धात्वादिस्तस्य । [प्रणाटयति प्रणट नृत्तौ' (१८७) णट । अनेन नट् । प्रनटन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० →इ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । वर्त० तिव् । 'कर्तर्यनदभ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽङिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । ‘अदुरुपसर्गाऽन्तरो ण-हिनु-मीना-ऽऽनेः' (२।३।७७) न०→ण० ||छ।। षः सोऽष्ट्यै-ष्टिव-ष्वष्कः ।।२।३।९८|| [अष्टयैष्टिवष्वष्कः] ष्टयैश्च ष्ठिवश्च ष्वष्क् च = ष्ट्यैष्ठिवष्वष्क्, न ष्ट्यैष्ठिवष्वष्क् = अष्ट्यैष्ठिवष्वष्क् । 'नञत्' (३।२।१२५) न०→अ०, तस्य । [सहते] 'पहि मर्षणे' (९९०) षह् । अनेन सह । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [सिञ्चति] ‘षिचीत् क्षरणे' (१३२१) षिच् । अनेन सिच् । वर्त्तः तिव् । 'तुदादेः शः' (३।४।८१) शप्र०→अ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003292
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2009
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy