________________
अथ द्वितीयाध्यायस्य तृतीयः पादः ॥
व० । चजः क- गम्' (२।१।८६) च० क० ।
[ दीर्घानी शरत्] दीर्घाण्यहानि अस्यां सा । अनो वा (२|४|११ ) डीप्र० ई । 'ईडी वा' (२।१।१०९) अलोपः । [त्र्य] त्रिषु अहस्सु भवः । ' सर्वां ऽश संख्या- ऽव्ययात्' ( ७।३।११८) अट्समासान्तो ऽह्नाऽऽदेशश्च । 'भवे' (६।३।१२३) अण्प्र० । 'द्विगोरनपत्ये य- स्वरा-ऽऽदेर्लुबद्विः' (६।१।२४) लुप् तस्मिन् ।
[गर्दभवाहिनी] गर्दभान् वाहयत इत्येवंशीलौ । ' अजातेः शीले' (५।१।१५४) णिन्प्र० → इन् ।
[ गर्दभवाहिनः ] गर्दभान् वाहयन्तीत्येवंशीलाः ते ॥छ ।
कवकस्वरवति ||२।३।७६ ||
[naकस्वरवति] एकश्चासौ स्वरश्च = एकस्वरः, कवर्गश्च एकस्वरश्च = कवर्गेकस्वरं, 5 कवर्गेकस्वरं विद्यते यत्र तत् । ‘तदस्याऽस्त्यस्मिन्निति मतुः ' ( ७।२1१) मतुप्र० मत् । 'मावर्णान्तोपान्ता०' (२।१।९४) म० व०, तस्मिन् ।
१११
[ स्वर्गकामिणी] स्वर्ग 'कमूङ् कान्तौ' (७८९) कम् । 'कमेर्णिङ्' ( ३।४।२) णिप्र० - इ । णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः आ । स्वर्गं कामयेते इत्येवंशीली । 'अजातेः शीले' (५।१।१५४) णिन्प्र० - इन् । प्रथमा औ ।
[ मोक्षकामिणी] मोक्षं कामयेते इत्येवंशीलौ । 'अजाते: शीले' (५।१।१५४) णिन्प्र० - इन् । प्रथमा औ । [ स्वर्गगामिणी] स्वर्ग अम (३९२) - द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लं गतौ (३९६) गम् । स्वर्गं गच्छत इत्येवंशीली ।
[वृषगामिणौ ] वृषेण गच्छत इत्येवंशीलौ ।
[ स्वर्गकामाणि कुलानि ] स्वर्गं कामयन्त इत्येवंशीलानि ।
[मोक्षकामाणि कुलानि] मोक्षं कामयन्त इत्येवंशीलानि, [ यानि ] तानि ।
[ब्रह्महणी] ब्रह्मन् 'हनंक् हिंसा- गत्योः ' (११००) हन् । ब्रह्माणं हतवन्तौ । 'ब्रह्म-भ्रूण- वृत्रात् क्विप्' (५।१।१६१) क्विप्प्र० । अप्रयोगीत् (१।१।३७ ) क्विप्लोपः । प्रथमा औ । अनेन न०-० ।
[वृत्रहणौ ] वृत्रं हतवन्तौ । 'ब्रह्म-भूण- वृत्रात् क्विप्' (५।१।१६१) क्विप्प्र० । 'अप्रयोगीत् ' (१।१।३७) क्विप्लोपः । प्रथमा औ । अनेन न० ० ।
[ क्षीरपाणि] क्षीर 'पां पाने' ( २ ) पा । क्षीरं पिवन्तीति क्विप् । 'अप्रयोगीत्' (१।११३७ ) क्विप्लोपः । 'क्लीबे' ( २।४।९७) ह्रस्वः ।
[यूषपाणि] यूषं मुद्गरसं पिवन्ति यानि कुलानि तानि । 'आतो डोऽह्वा-वा-मः' (५1१।७६) प्र० ।
[पुरोगान्] पुरस् अम (३९२) द्रम (३९३ ) - हम्म (३९४ ) - मीमृ ( ३९५ ) - 'गम्लं गतौ ' ( ३९६) गम् । पुरो गच्छन्तीति । 'नाम्नो गमः खड्-डौ च विहायसस्तु विहः' (५।१।१३१) डप्र० । ' डित्यन्त्यस्वरादेः ' (२।१।११४) अन्त्यस्वरादिलोपः, तान् ।
[ क्षीरपक्वानि] क्षीरेण पक्वानि ।
[यूषपक्वानि ] यूष्णा पक्वानि ।
[ माषत्यागिनः ] माषाणां त्यागो विद्यते येषु ते । 'अतोऽनेकस्वरात्' (७१२।६) इन्प्र० । 'अवर्णवर्णस्य' (७|४|६८ ) P5 कवर्गेकस्वरमस्याऽस्ति ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org