________________
९६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
असोडौं च तौ सिवूसहौ च असोडसिवूसहौ, असोडसिवूसहौ च स्सट् च = असोडसिवूसहस्सटः, तेषाम् ।
[परिषीव्यति, निषीव्यति, विषीव्यति] 'षिवूच उतौ' (११६४) षिव । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) सिव । परि-नि-विपूर्व० । वर्त्त० तिव् । 'दिवादेः श्यः' (३।४।७२) श्यप्र० → य । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । अनेन स०→ष० ।
परिषहते, निषहते, विषहते] 'षहि मर्षणे' (९९०) षह् । 'षः सोऽष्टयै०' (२।३।९८) सह । परि-नि-विपूर्व० । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन स० → ष० ।
परिष्करोति] परि 'डुकंग करणे' (८८८ ) कृ । 'संपरेः कृगः स्सट्' (४।४।९१) स्सट् → स् । वर्त्तः तिव् । 'कृग-तनादेरुः' (३।४।८३) उ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । [अतः शित्युत्' (४।२।८९) अ० → उ० (?)] 'उ-श्नोः' (४।३।२) गु० ओ ।
__ [विष्किरः शकुनिः] ‘कृत् विक्षेपे' (१३३४) कृ, विपूर्व० । विकिरतीति । 'नाम्युपान्त्य-प्री-क-गू-ज्ञः कः' (५।१।५४) कप्र० → अ ।' 'ऋतां विडतीर्' (४।४।११६) ३-इ-→किर् । 'वौ विष्किरो वा' (४।४।९६) स्सट्→स० ।
__ [परिसोढः] 'षहि मर्षणे' (९९०) षह । 'षः सोऽष्टयै०' (२।३।९८) सह, परिपूर्व० । परिषह्यते स्म । सर्वत्र वाक्यावस्थायां षत्वम् । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०→त० । क्तादौ सर्वत्र 'वेटोऽपतः' (४।४।६२) इति इटनिषेधः । 'हो धुट-पदान्ते' (२।१।८२) ह०→ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध०→ढ० । 'सहिवहेरोच्चाऽवर्णस्य' (१।३।४३) ढलोपः-पूर्वस्य ओ ।
[परिसोढव्यः] सह्, परिपूर्व० । परिषह्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । तव्यादौ ‘सह-लुभेच्छ-रुष-रिषस्तादेः' (४।४।४६) वेट् । 'हो धुट्-पदान्ते' (२।१९८२) ह०ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त०→ध० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) ध०→ढ० । ‘सहि वहेरोच्चाऽवर्णस्य' (१।३।४३) ढलोपः - पूर्वस्य ओ ।
[निसोढः] सह, निपूर्व । निषाते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । [निसोढव्यः] सह्, निपूर्व० । निषह्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । [विसोढः] सह, विपूर्व० । विषहते स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र० → त । [विसोढव्यः] सह्, विपूर्व० । विषह्यते । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० ।
[मा परिसीषिवत्] 'षिवूच् उतौ' (११६४) षिव् । 'षः सोऽष्टयै०' (२।३।९८) सिव्, परिपूर्व० । परिसीव्यन्तं प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प०→इ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । अद्यतनी दि→त् । 'णिश्रि-द्रु-सु-कमः०' (३।४।५८) उग्र०→अ । 'द्विर्धातुः परोक्षा-डे ०' (४।१।१) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४)
अनादिव्यञ्जनलोपः । 'हूस्वः' (४।१।३९) ह्रस्वः । उपानयस्याऽसमानलोपिशास्वृदितो डे' (४।२।३५) ह्रस्वः । लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।
[मा परिसीषहत सह्, परिपूर्व० । परिषह्यन्तं प्रायुक्त । 'प्रयोक्तृ० (३।४।२०) णिगप्र० →इ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । अद्यतनी दि → त् । “णि-श्रि द्रु-सु०' (३।४।५८) ङप्र० → अ । 'द्विर्धातुः परोक्षा-२०' (४।१।१) द्विवचनम् । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'असमानलोपे सन्वल्लघुनि डे (४।१।६३) इ । 'उपान्त्यस्याऽसमानलोपि०' (४।२।३५) इस्वः । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३८३) णिग्लोपः । 'नाम्यन्तस्था०' (२।३।१५) स० → ष० ।
[परिसेषिवीति] सिव, परिपूर्व० । भृशं पुनः पुनर्वा परिषीव्यति । 'व्यञ्जनादेरेकस्वराद' (३।४।९) यप्र० । 'सन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org