SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । इन्द्रे ।।१२।३०॥ [इन्द्रे] इन्द्र सप्तम्येक० ङि । 'अवर्णस्ये०' (११२१६) ए. । [गवेन्द्रः] गवामिन्द्रो = गवेन्द्रः ॥ छ । वाऽत्यसन्धिः ॥१२॥३१॥ [वाऽत्यसन्धिः ] वा अव्यउ । अत् सप्तम्येक० ङि | न सन्धिरसन्धिः । 'नञत्' (३।२।१२५) न० → अ० । [गोअग्रम्, गोऽग्रम्, गवाग्रम गवामग्रं = गोअग्रं, गोऽग्रम्, गवाग्रं । अनेनाऽसन्धिः । पक्षे 'स्वरे वाऽनक्षे' (१।२।२९) अव कीजइ । [गवेड़ितम्] 'इगु गतौ' (८७) इग् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) नोऽन्तः इङ्ग । इङ्गनमिङ्गितम् । ‘क्लीवे क्तः' (५।३।१२३) क्तप्र० → त । ‘स्ताद्यशितोऽत्रोणादेरिट (४।४।३२) इडागमः । गवामिङ्गितं = गवेङ्गितम् । प्रथमैक० सि । 'स्वरे वाऽनक्षे' (१।२।२९) अव । 'अवर्णस्ये०' (१।२६) ए. । [गवाननम्] गवामाननं = गवाननम् । [चित्रग्वग्रम-] चित्रगोरगं = चित्रग्वग्रम् ।। छ ।। प्लुतोऽनितौ ।।१।२।३२॥ [प्लुतोऽनिती] प्लुत् षष्ठयेक० डस् । न इति = अनिति । 'अन् स्वरे' (३।२।१२९) अन् । तस्मिन् = अनितौ, सप्तम्येक० डि, 'डिौँ' (१।४।२५) डि० → डौ → औ । 'डित्यन्त्यस्वरादेः' (२।१।११४) इलोपः । [देवदत्त३ अत्र न्वसि ?] देव अग्रे 'डुदांग्क दाने' (११३८) दा । देवाय(देवाः) एनं देयासुर्देवदत्त३ । 'तिक्कृतौ नाम्नि' (५।१७१) क्तप्र०-ददादेशः । ‘आमन्त्र्ये' (२१२१३२) सि । 'अदेतः स्यमोर्लुक्' (१।४।४४) सिलोपः ।' दूरादामन्त्र्यस्य'० (७।४।९९) प्लुतसंज्ञा । अत्र अव्यउ । प्रथमैक० सि । 'अव्ययस्य' (३।२७) सिलोपः । नु अव्यउ । प्रथमैक० सि । 'अव्ययस्य' (३।२७) सिलोपः । 'असक् भवे (भुवि)' (११०२) अस् । वर्त० सिव् । 'अस्तेः सि हस्त्वेति' (४।३।७३) सलोपः । 'इवर्णादरस्वे स्वरे य-व-र-लम्' (१।२।२१) व०। [जिनदत्त३ इदमानय] जिन अग्रे 'डुदांग दाने' (११३८) दा । जिनाय (जिनाः) एनं देयासुर्जिनदत्त ३ । 'तिक्कृती नाम्नि' (५1१७१) क्तप्र० - ददादेशः । 'आमन्त्र्ये' (२।२।३२) सि । 'अदेतः स्यमोलुंक्' (१।४।४४) सिलोपः । 'दूरादामन्त्र्यस्य०' (७।४।९९) प्लुतसंज्ञा । इदम् प्रथमैक० सि | 'अनतो लुप' (१।४।५९) सिलोपः । ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेो नः' (२१३।९७) नी, आपूर्व० । पं० हि । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३१) गुणः ए । 'एदैतोऽयाय' (१।२।२३) अय् । 'अतः प्रत्ययाल्लुक्' (४२८५) हिलोपः । [सुश्लोक३ आगच्छ] श्लोक सुपूर्व० । शोभनः श्लोको यस्याऽसौ सुश्लोकस्तस्य संवोधनं हे सुश्लोक ३ । प्रथमैक० सि । 'अदेतः स्यमोलुंक्' (१।४।४४) सिलोपः । 'दूरादामन्त्र्यस्य०' (७।४।९९) प्लुतसंज्ञा । 'गम्लुं गतौ' (३९६) गम्, आडपर्व० । पं० हि । 'कर्त्तर्यनदभ्यः शव' (३।४।७१) शव । 'गमिषद्यमश्छः' (४२११०६) छ० । 'स्वरेभ्यः' (११३।३०) छस्य द्वित्वं । 'अघोपे प्रथमोऽशिटः' (१।३।५०) आद्यछस्य च० । 'अतः प्रत्ययाल्लुक्' (४।२।८५) हिलोपः । [सुमङ्गल ३ इदमानय] शोभनानि मङ्गलानि यस्याऽसौ सुमङ्गलस्तस्य संवोधनं हे सुमङ्गल ३ । प्रथमैक० सि । 'अदेतः स्यमोलुंक' (१।४।४४) सिलोपः । 'दूरादामन्त्र्यस्य०' (७।४।९९) प्लुतसंज्ञा ।।छ।। Jain Education Intemational For Private & Personal Use Only For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy