SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका । ढस्य द्वित्वं । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ढ० → ड० । 'अड् धातोरादि०' (४।४।२९) अडागमः । [तीषीवम्] 'तृ प्लवन-तरणयोः' (२७) तु । आशीः सीध्वम् । 'ऋवर्णात्' (४।३।३६) किद्वत् । 'ऋवर्ण-युण्णुगः कितः' (४।४।५७) इनिषेधः । 'ऋतां विडतीर्' (४।४।११६) इर् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । अनेन ध० → ढ० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [तुष्टुढ्वे] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'षः सोऽष्ट्यै-ष्ट्वि-ष्वष्कः' (२।३।९८) स्तु । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्यायसंग्रहः १/२९) स्तु | परोक्षा ध्वे । 'द्विर्धातुः परोक्षा-डे०' (४।११) स्तु द्विवचनं । 'अघोषे शिटः' (१३५०) सलोपः । अनेन ध० → ढ० । [अदिढ्वम्] 'डुदांग्क दाने' (११३८) दा । अद्यतनी ध्वम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'इश्च स्था-दः' (४।३।४१) सिक्किद्वत् - दा० → दि० । 'सो धि वा' (४।३७२) सिज्लोपः । अनेन ध० → ढ० । 'अड् धातोरादि०' (४।४।२९) अडागमः । [अचेढ्वम्] 'चिंग्ट् चयने' (१२९०) चि । अद्यत० ध्वम् । ‘सिजद्यतन्याम्' (३।४५३) सिच् । 'नामिनो गुणोऽक्डिति' (४।३१) गु० ए. । 'सो धि वा' (४।३।७२) सिज्लोपः । ‘अड्०' (४।४।२९) अट् । अनेन । [अच्योढ्वम्] 'च्युङ् गतौ' (५९४) च्यु । अद्यत० ध्वम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ओ० । सो धि वा' (४।३।७२) सिज्लोपः । ‘अड्०' (४।४।२९) अट् । अनेन । [अकृढ्वम्] ‘डुकंग करणे' (८८८) कृ । अद्यत० ध्वम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'ऋवर्णात्' (४।३।३६) किद्वत् । 'सो धि वा' (४।३।७२) सिज्लोपः । 'अड् धातो०' (४।४।२९) अट् । अनेन । [अपग्ध्वम्] 'डुपची पाके' (८९२) पच् । अद्यत० ध्वम् । 'सिजद्यत०' (३।४।५३) सिच् । 'सो धि वा' (४।३।७२) सिज्लोपः । 'च-जः क-गम्' (२।१९८६) च० →क० । 'तृतीयस्तृतीय-चतुर्थे' (१३।४९) क० → ग० । 'अड् धातोरादि०' (४।४।२९) अडागमः । [ववसिध्वे] 'वसिक् आच्छादने' (१११७) वस् । परोक्षा ध्वे । 'द्विर्धातुः परोक्षा-डे प्राक् तु स्वरे स्वरविधेः' (४।१।१) द्विर्वचनं । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘स्क्रसृ-वृ-भृ-स्तु द्रुश्रु-स्रोर्व्यञ्जनादे: परोक्षायाः' (४।४।८१) इट् । [आसिध्वम्] 'आसिक् उपवेशने' (१११९) आस् । अद्यत० ध्वम् । 'सिजद्यतन्याम्' (३।४५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'सो धि वा' (४।३।७२) सिज्लोपः । 'स्वरादेस्तासु' (४।४।३१) वृद्धिः । [अस्तुध्वम्] 'ष्टुंग्क् स्तुतौ' (११२४) ष्टु । 'षः सोऽष्टयै-ष्ठिव-ष्वष्कः' (२।३।९८) स्तु । ह्यस्तनी ध्वम् । 'अड् धातोरादि०' (४।४।२९) अडागमः ॥छ।। हान्तस्थाञ्जीड्भ्यां वा ।।२।१८१।। [हान्तस्थाञीड्भ्याम्] हश्च अन्तस्था(:) च = हान्तस्थम् । ‘क्लीबे' (२।४।९७) ह्रस्वस्तस्मात् । ञिश्च इट् च = जीटौ । 'धुटस्तृतीयः' (२११७६) त० → द० । 'तृतीयस्य पञ्चमे' (१९३१) द० →न । 'तवर्गस्य श्चवर्ग०' (११३१६०) न० → ० । ताभ्यां = हान्तस्थाञीड्भ्याम् । 'धुटस्तृतीयः' (२।१७६) ट० → ड० । [अग्राहिढ्वम्, अग्राहिध्वम्] 'ग्रहीश् उपादाने' (१५१७) ग्रह् । अद्यतनी ध्वम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्वर-ग्रह-दृश-हन्भ्यः स्य-सिजाशी:-श्वस्तन्यां जिट् वा' (३।४।६९) जिट् → इ । 'णिति' (४३५०) उपान्त्यवृद्धिः । सो धि वा' (४।३।७२) सिज्लोपः । 'अड् धातोरादि०' (४।४।२९) अडागमः । अनेन । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy