SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका कुंढिका । MANON न यि तद्धिते ।।२।१।६५।। [न यि तद्धिते] न अव्यउ । प्रथमा सि । य सप्तमी ङि । तद्धित सप्तमी ङि । [धुर्यः] धुरं वहति । 'धुरो यैयण' (७।१।३) यप्र० । प्रथमा सि । [गिर्यः] गिरि साधुः = गिर्यः । 'तत्र साधौ' (७।१।१५) यप्र० । [गीर्वत्] गिर् । गीरिव = गीर्वत् । ‘स्यादेरिवे' (७।११५२) वत्प० । ‘पदान्ते' (२।१।६४) दीर्घः । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः ।। [धूर्वत्] धूरिव = धूर्वत् । ‘स्यादेरिवे' (७।१।५२) वत्प० । ‘पदान्ते' (२।१।६४) दीर्घः । प्रथमा सि । 'अव्ययस्य' (३।२७) सिलोपः । [गीर्यति] गिरमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । वर्त० तिव् । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्या०' (२।१।११३) अलोपः । [धूर्यति धुरमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० । 'भ्वादे मिनो०' (२११६३) दीर्घः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्या०' (२११११३) अलोपः । [गीर्यते] गीरिवाऽऽचरति । 'क्यङ् (३।४।२६) क्यप्र० → य. । 'भ्वादे मिनो०' (२१११६३) दीर्घः । वर्तक ते । 'कर्त्तर्य०' (३।४।७१) शव् । 'लुगस्या०' (२।१।११३) अलोपः । [धूर्यते धूरिवाऽऽचरति । 'क्यङ्' (३।४।२६) क्यप्र० → य. । 'भ्वादे मिनो०' (२।१।६३) दीर्घः । वर्त० ते । 'कर्त्तर्य०' (३।४।७१) शव् । 'लुगस्या०' (२।१।११३) अलोपः । [कीर्यते] ‘कृत् विक्षेपे' (१३३४) कृ । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य. । 'ऋतां विडतीर्' (४।४।११६) इर् । [गीर्यते] ‘गृत् निगरणे' (१३३५) गृ । वर्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य. । 'ऋतां विडतीर्' (४|४|११६) इर् | [कीर्यात्] ‘कृत् विक्षेपे' (१३३४) कृ । आशीः क्यात्प्र० → यात् । 'ऋतां विडतीर्' (४।४।११६) इर् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । _[गीर्यात्] 'गृत् निगरणे' (१३३५) गृ । आशीः क्यात्प्र० → यात् । ‘कृतां विडतीर्' (४।४।११६) इर् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । [दीव्यात्] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । आशीः क्यात्प्र० → यात् । 'भ्वादेर्नामिनो०' (२।१।६३) दीर्घः । [सीव्यात्] 'षिवूच उतौ' (११६४) षिव् । 'षः सोऽष्ट्यै-ष्टिव-ष्वष्कः' (२।३।९८) सिव् । आशी: क्यात्प० → यात् । 'भ्वादे मिनो०' (२१११६३) दीर्घः ।।छ।। कुरुच्छुरः ।।२191६६॥ [कुरुच्छुरः] कुरुश्च छुर् च = कुरुच्छुर, तस्य । [कुर्यात्] 'डुकुंग करणे' (८८८) कृ । सप्तमी यात् । 'कृग्-तनादेरुः' (३।४१८३) उप० । 'नामिनो गुणोऽविडदि (४।३१) गु० अर् । 'अतः शित्युत्' (४।२१८९) अ० → उ० । 'कृगो यि च' (४।२१८८) उलोपः । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy