________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
त. । ‘धागः' (४।४।१५ ) हि आदेशः । सुपूर्व० शोभनं विहितं चारित्रं यस्याऽसौ सुविहितः, तस्य संबोधनं हे सुविहित ! 'आमन्त्र्ये' (२।२।३२) सि । 'अदेतः स्यमोर्लुक्' (१।४।४४ ) सिलोपः ।
१५४
[व] युष्मद् । द्वि० शस् । अनेन असत्त्वे प्राप्ते 'नान्यत् ' (२।१।२७) साधो ! इत्यस्य असदिव न भवति । [न] अस्मद् । द्वि० शस् । अनेन । 'नान्यत्' (२।१।२७) असदिव न भवति ।
[शरण्याः ! साधवो ! युष्मान् शरणं प्रपद्ये, शरण्याः ! साधवो ! अस्मान् रक्षत ]
[शरण्याः!] शरण्य । आमन्त्र्ये जस् । अत्र आमन्त्र्यंतं जसन्तं विशेष्यं विशेषणस्य आमन्त्र्यस्य न पूर्वयुष्मद्देन व्यवहितत्वात्, अनेन असद्विकल्पो न भवति ।
[आचार्या ! उपाध्याया ! युष्मान् शरणं प्रपद्ये ]
[आचार्या !] आचार्य ! 'आमन्त्र्ये' (२।२।३२) जस् । 'अत आ स्यादौ०' (१।४।१) अ० आ० । ‘रोर्यः’ (१।३।२६) २० य० । 'स्वरे वा' (१।३।२४ ) यलोपः ।
[उपाध्याया!] उप+'इंक् अध्ययने' (११०४ ) इ, अधिपूर्व० । उपेत्याऽऽगत्य अधीयते यस्मादित्युपाध्यायः । 'इङोऽपादाने तु टिद् वा' (५।३।१९) घञ्प्र० अ० । 'नामिनोऽकलि हले:' ( ४ | ३ |५१) वृद्धिः इ० → ऐ० । 'आमन्त्र्ये’ (२।२।३२) जस् । ‘अत आ स्यादौ ० ' (१।४।१) अ० आ० । अवर्ण- भो-भगो-ऽघोर्लुगसन्धिः ' (१।३।२२) रलोपः ।
अत्र विशेष्य-विशेषणाभावादनेन असद्वा न भवति ।। छ ।
नान्यत् ||२।१।२७॥
[ नान्यत् ] न अव्यउ । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलोपः । अन्य प्रथमा सि । पञ्चतोऽन्यादेरनेकतरस्य द: ' (१।४।५८ ) स० द० । 'विरामे वा' (१।३।५१) द० त० ।
[ साधो ! सुविहित! त्वा शरणं प्रपद्ये]
[साधो!] साधु । 'आमन्त्र्ये' (२।२१३२) सि । ' ह्रस्वस्य गुणः' (१।४।४१ ) गु० ओ. ।
[सुविहित ! ] सुविहित । 'आमन्त्र्ये' (२।२।३२) सि । 'अदेतः स्यमोर्लुक्' (१।४।४४) सिलोपः ।
[त्या] युष्मद् । द्वि० अम् । 'अमा त्वा-मा' (२।१।२४ ) त्वा ।
[ साधो ! सुविहित ! मा रक्ष]
[ मा] अस्मद् । द्वि० अम् । 'अमा त्वा-मा' (२।१।२४) मा ।
अत्र परस्य 'असदिवाऽऽमन्त्र्यं पूर्वम्' (२।१।२५ ) इत्यसत्त्वेऽपि पूर्वविशेष्यपदाश्रया युष्मदस्मदादेशा भवन्ति ॥ | छ ।
पादाद्योः || २|१|२८||
[पादाद्योः ] 'पदिंच् गतौ' (१२५७) पद् । पद्यते पत्स्यते अपादि पेदे वेति पाद: । 'पद- रुज-विश-स्पृशो घञ्' (५।३।१६) घञ्प्र० अ । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः । पादस्यादी प्रादादी, तयोः ।
नियतपरिमाणमात्राक्षरपिण्डः पादः ।
मात्राश्च अक्षराणि च = मात्राक्षराणि, नियतपरिमाणानि च तानि मात्राक्षराणि च नियतपरिमाणमात्राक्षराणि तेषां पिण्डः पाद इत्युच्यते ।
पादाद्योरिति द्विवचनं युष्मदस्मदोरभिसंबंधार्थम्, पादादावित्युंच्यमाने आमन्त्र्यमभिसंबध्येत ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org