SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १३४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढूंढिका । [पिण्डग्रः] ‘प्रसूङ् अदने' (८५४) ग्रस्, पिण्डपूर्व० । पिण्डं ग्रसते = पिण्डग्रः। 'क्विप्' (५।१।१४८) क्विपप० । [चर्मवः] 'वसिक आच्छादने' (१११७) वस्, चर्मनपूर्व० । चर्म वस्ते = चर्मवः । 'क्विप्' (५।१११४८) क्विप० । 'अप्रयोगीत्' (१।११३७) विप्लोपः । [खरणाः] खरवन्नासिका यस्याऽसौ खरणाः । 'खर-खुरान्नासिकाया नस्' (७।३।१६०) नासिका० → नस्आदेशः ! प्रथमा सि । ‘दीर्घड्याव्०' (१।४।४५) सिलोपः । [खुरणाः] खुरवन्नासिका यस्याऽसौ खुरणाः । 'खर-खुरान्नासिकाया नस्' (७।३।१६०) नासिका० → नस्आदेशः । प्रथमा सि । “दीर्घड्याब०' (१।४।४५) सिलोपः । [गोमान] गोमन्तमिच्छति । 'अमाव्ययात् क्यन च' (३।४।२३) क्यन्प्र०-→य० । गोमय(त्य)तीति क्वि । अतः' (४।३।८२) अलोपः । 'य्वोः प्वव्यञ्जने लुक्' (४।४।१२१) यलोपः । ‘अप्रयोगीत्' (१।१।३७) क्विप्लोपः । स्थूलशिराः] स्थूलशिरसमिच्छति । 'अमाव्ययात् क्यन् च' (३।४।२३) क्यन्प्र० → य० । स्थूलशिरस्यतीति क्विप् । 'अतः' (४।३।८२) अलोपः । 'य्वोः प्वयव्यञ्जने लुक' (४।४।१२१) यलोपः । 'अप्रयोगीत्' (१1१1३७) क्विप्लोपः । प्रथमा सि । दीर्घड्याव्०' (१।४।४५) सिलोपः । ‘सो रुः' (२।११७२) र० । अनेन । [पचन] 'डुपचीं पाके' (८९२) पच् । पचतीति पचन् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । [जरन] 'जृण बयोहानौ' (१९४७) जु । जरतीति जरन् ? 'जूपच जरसि' (११४५) जू । जीर्यति स्म । 'ऋषोऽतृः' (५।१।१७३) अतृप्र० → अत् । ‘कर्तर्यन०' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) अर् । प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः ।। छ ।। क्रुशस्तुनस्तृच् पुंसि ।।१।४।९१।। [कुशस्तुनस्तृच] क्रुश् । पञ्चमी डसि । तुन् । षष्ठी डस् । तृच । प्रथमा सि । [पुंसि] पुम्स् । सप्तमी ङि । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । [कोष्टा] 'क्रुशं आह्वान-रोदनयोः' (९८६) कुश् । क्रोशतीति । 'कृ-सि-कम्यमि-गमि-तनि-मनि-जन्यसि-मसि-सच्यविभा-धा-गा-ग्ला-म्ला-हनि-हा-या-हि क्रुशि-पूभ्यस्तुन्' (उणा० ७७३) तुन्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ० । प्रथमा सि । 'यज-सृज-मृज०' (२।१।८७) श० → प० । अनेन तृच् । 'तवर्गस्य०' (१।३।६०) त० → ट० । 'ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) डा० । 'डित्यन्त्यस्वरादेः' (२।१११४) अन्त्यस्वरादिलोपः । कोष्टारो, क्रोष्टारः, क्रोष्टारम, क्रोष्टारौ] क्रोशत इति, प्रथमा औ । क्रोशन्तीति, प्रथमा जस् । क्रोशतीति, द्वितीया अम् । क्रोशत इति, द्वितीया औ । 'कृ-सि-कम्यमि०' (उणा० ७७३) तुन्प्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ० । 'यज-सृज मृज०' (२।१८७) श० → ष० । अनेन तृच् । 'तवर्गस्य०' (११३।६०) त० → ट० । 'तृ-स्वसृ-नप्तृ-नेष्ट्र०' (११४३८) आर् । .. [अतिक्रोष्टा] क्रोष्टारमतिक्रान्तोऽसौ । [प्रियक्रोष्टा] प्रियाः क्रोष्टारो यस्याऽसौ । [कृशक्रोष्टूनि वनानि] कृशाः क्रोष्टारो येषु वनेषु तानि ।। छ । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003291
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 01
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2008
Total Pages252
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy