SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ३२६ कुन्दकुन्दविरचितः [अ० ३, गा० ६६नश्यति ॥ ६५॥ ___ अथ श्रामण्येनाधिकं हीनभिवाचरतो विनाशं दर्शयति गुणदोधिगस्स विणयं पडिच्छगो जो वि होमि समणो त्ति । होजं गुणाधरो जदि सो होदि अणंतसंसारी ॥६६॥ गुणतोऽधिकस्य विनयं प्रत्येषको योऽपि भवामि श्रमण इति । भवन् गुणाधरो यदि स भवत्यनन्तसंसारी ॥ ६६ ॥ स्वयं जघन्यगुणः सन् श्रमणोऽहमपीत्यवलेपात्परेषां गुणाधिकानां विनयं प्रतीच्छन् तपःफलं चेति ॥ ६५ ॥ अत्राह शिष्यः-अपवादव्याख्यानप्रस्तावे शुभोपयोगो व्याख्यातः पुनरपि किमर्थम् अत्र व्याख्यानं कृतमिति । परिहारमाह-युक्तमिदं भवदीयवचनं किंतु तत्र सर्वत्यागलक्षणात्सर्गव्याख्याने कृते सति तत्रासमर्थतपोधनैः कालापेक्षया किमपि ज्ञानसंयमशौचोपकरणादिकं ग्राह्यमित्यपवादव्याख्यानमेव मुख्यम् । अत्र तु यथा भेदनयेन सम्यग्दर्शनज्ञानचारित्रतपश्चरणरूपा चतुर्विधाराधना भवति । सैवाभेदनयेन सम्यक्त्वचारित्ररूपेग द्विधा भवति । तत्राप्यभेदविवक्षया पुनरेकैव वीतरागचारित्राराधना । तदा भेदनयेन सम्यग्दर्शनसम्यग्ज्ञानसम्यक्चारित्ररूपत्रिविधमोक्षमार्गो भवति । स एवाभेदनयेन श्रामण्यापरमोक्षमार्गनामा पुनरेक एव स चाभेदरूपो मुख्यवृत्त्या 'एयग्गगदो समणो' इत्यादि चतुर्दशगाथाभिः पूर्वमेव व्याख्यातः । अयं तु भेदरूपो मुख्यवृत्त्या शुभोपयोगरूपेणेदानी व्याख्यातो नास्ति पुनरुक्तदोष इति । एवं समाचारविशेषविवरणरूपेग चतुर्थस्थले गाथाष्टकं गतम् । अथ स्वयं गुणहीनः सन्नपरेषां गुणाधिकानां योऽसौ विनयं वाञ्छति तस्य गुणविनाशं दर्शयति–स होदि अणंतसंसारी स कथंचिदनन्तसंसारे संभवति । यः किं करोति । पडिच्छगो जो वि प्रत्येषको यस्तु अभिलाषकोऽपेक्षक इति । कम् । विणयं वन्दनादिविनयम् । कस्य संबन्धिनम् । गुणदोधिगस्स बाह्याभ्यन्तरत्नत्रयगुणाभ्यामधिकस्यान्यतपोधनस्य । केन कृत्वा । होमि समणो त्ति अहमपि श्रमणो भवामीत्यभिमानेन गर्वेण । यदि किम् । होज गुणाधरो जदि निश्चयव्यवहाररत्नत्रयगुणाभ्यां हीनः स्वयं यदि चेद्भवतीति । अयमत्रार्थ:---यदि चेद्गुणाधिकेभ्यः सकाशाद्गण पूर्व विनयवाञ्छां करोति पश्चाद्विवेकबलेनात्मनिन्दा करोति । तदानन्तसंसारी न भवति यदि पुनस्तत्रैव मिथ्याभिमानेन ख्यातिपूजालाभार्थ दुराग्रहं करोति तथा भवति । अथवा आगे जो यतिपनेसे उत्कृष्ट है, उसको जो अपनेसे हिन आचरे वह अनंतसंसारी है, यह दिखलाते हैं— [यः] जो मुनि [अहं श्रमणः] मैं यती [भवामि] हूँ, [इति] ऐसे अभिमानसे [गुणतः अधिकस्य] ज्ञान संयमादि गुणोंकर उत्कृष्ट महामुनियोंसे [विनयं] आदरको प्रत्येषकः] चाहता है, वह [यदि] जो [गुणाधरः] गुणोंको नहीं धारण करनेवाला [भवन् ] हुआ संता [सः] झूठे गर्वका करनेवाला, वह [अनंतसंसारी] अनंत संसारका भोगने वाला [भवति] होता है । भावार्थ-जो कोई महामुनिके पाससे अपना विनय चाहता है, और कहता है, क्या हुआ जो ये गुगोसे अधिक हैं, मैं भी तो यति हूँ, ऐसा अहंकार भी करता है, वह संसारमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy