________________
कुन्दकुन्दविरचितः
[अ० ३, गा० २५*१४
रूपोपेक्षितयथाजातरूपलेन बहिरङ्गलिङ्गभूताः कायपुद्गलाः श्रूयमाणतत्कालबोधकगुरुगीर्यमाणात्मतत्त्वद्योतक सिद्धोपदेशवचन पुद्गलास्तथाधीयमाननित्यबोधकानादिनिधनशुद्धात्मतत्त्वद्योतनसकुलव्यवस्थानिमित्तम् । न चोपचारः साक्षाद्भवितुमर्हति अग्निवत् कूरोऽयं देवदत्त इत्यादिवत् । तथा चोक्तम्मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । किंतु यदि तद्भवे मोक्षो भवति स्त्रीणां तर्हि शतवर्षदीक्षिताया अर्जिकाया अथदिने दीक्षितः साधुः कथं वन्यो भवति । सैव प्रथमतः किं न वन्द्या भवति साधोः । किंतु भवन्मते मल्लितीर्थकरः स्त्रीति कथ्यते तदप्ययुक्तम् | तीर्थकरा हि सम्यग्दर्शन विशुद्धयादिषोडशभावनाः पूर्वभवे भावयित्वा पश्चाद्भवन्ति । सम्यग्दृष्टेः स्त्रीवेदकर्मणो बन्ध एव नास्ति कथं स्त्री भविष्यतीति । किं च यदि मल्लितीर्थकरो वान्यः कोऽपि वा स्त्रीभूत्वा निर्वाणं गतः तर्हि स्त्रीरूपप्रतिमाराधना किं न क्रियते भवद्भिः । यदि पूर्वोक्तदोषाः सन्तः स्त्रीणां तर्हि सीतारुक्मिणी कुन्ती द्रौपदीसुभद्राप्रभृतयो जिनदीक्षां गृहीत्वा विशिष्टतपश्चरणेन कथं षोडशस्वर्गे गता इति चेत् । परिहारमाह-तत्र दोषो नास्ति तस्मात्स्वर्गादागत्य पुरुषवेदेन मोक्षं यास्यन्त्यग्रे । तद्भवमोक्षो नास्ति भवान्तरे भवतु को दोष इति । इदमत्र तात्पर्यम् - स्वयं वस्तुस्वरूपमेव ज्ञातव्यं परं प्रति विवादो न कर्तव्यः । कस्मात् । विवादे रागद्वेषोत्पत्तिर्भवति ततश्च शुद्धाभावना नश्यतीति ॥ अथोपसंहाररूपेण स्थितपक्षं दर्शयति
तुम्हा तं पडिरूवं लिंग तासिं जिणेहिं णिहिं । कुलरूववओजुत्ता समणीओ तस्समाचारा ।। * १४ ॥
तम्हा यस्मात्तद्भवे मोक्षो नास्ति तस्मात्कारणात् तं पडिरूवं लिंग तासिं जिणेहिं णिद्दिहं तत्प्रतिरूपं वस्त्रप्रावरणसहितं लिङ्गं चिह्न लाञ्छनं तासां स्त्रीणां जिनवरैः सर्वज्ञैर्निर्दिष्टं कथितम् । कुलरूववओजुत्ता समणीओ लोकदुगुञ्छारहितत्वेन जिनदीक्षायोग्यं कुलं भण्यते । अन्तरङ्गनिर्विकारचित्तशुद्धिज्ञापकं बहिरङ्गनिर्विकारं रूपं भण्यते । शरीरभङ्गरहितं वा अतिबालवृद्धबुद्धिवैकल्यरहितं वयो भण्यते । तैः कुलरूपवयोभिर्युक्ताः कुलरूपवयोयुक्ता भवन्ति । काः श्रामण्यर्जिकाः । पुनरपि किंविशिष्टाः । तस्समाचारा तासां स्त्रीणां योग्यस्तद्योग्य आचारशास्त्रविहितसमाचार आचरणं यासां तास्तत्समाचारा इति ॥ १४ ॥ अदानीं पुरुषाणां दीक्षाग्रहणे वर्णव्यवस्थां कथयति —
२७८
auda ती एको कल्लागंगो तवोसहो वयसा ।
मुह कुंछारहिदो लिंग गहणे हवदि जोग्गो ।। * १५ ॥
वसु ती एको वर्णेषु त्रिष्वेकः ब्राह्मणक्षत्रियवैश्यवर्णेष्वेकः कल्लाणंगो कल्याणाङ्ग आरोग्यः तवोसो वयसा तपःसहः तपःक्षमः । केन । अतिवृद्धबालत्वरहितवयसा सुमुहो निर्विकाराभ्यन्तरपरमचैतन्यपरिणतिविशुद्धिज्ञापकं गमकं बहिरङ्गनिर्विकारं मुखं यस्य मुखावयवभङ्गरहितं वा स भवति सुमुखः इसलिये उपकारी है, अन्य परिग्रह नहीं है । उस मुनिके योग्य परिग्रहके भेद इस प्रकार है, कि सब aa आभूषणादिकसे रहित सहज ( स्वाभाविक) सुंदर यथाजातरूप बाह्य द्रव्य लिंगस्वरूप काययोग संबंधी पुद्गल, एक तो यह उपकरण है, और शुद्धात्मतत्त्वके प्रकाशक जो वचनात्मक पुद्गल हैं, उनको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org