________________
कुन्दकुन्दविरचितः
यः खलु द्रव्यस्वभावः परिणामः स गुणः सदविशिष्टः । सदवस्थितं स्वभावे द्रव्यमिति जिनोपदेशोऽयम् ॥ १७ ॥
द्रव्यं हि स्वभावे नित्यमवतिष्ठमानत्वात्सदिति प्राक् प्रतिपादितम् । स्वभावस्तु द्रव्यस्य परिणामोऽभिहितः । य एव द्रव्यस्य स्वभावभूतः परिणामः, स एव सदविशिष्टो गुण इतीह साध्यते । यदेव हि द्रव्यस्वरूपवृत्तिभूतमस्तित्वं द्रव्यप्रधाननिर्देशात्सदिति संशब्द्यते तदविशिष्ट - गुणभूत एव द्रव्यस्य स्वभावभूतः परिणामः द्रव्यवृत्तेर्हि त्रिकोटिसमयस्पर्शिन्याः प्रतिक्षणं तेन तेन स्वभावेन परिणमनाद्रव्यस्वभावभूत एव तावत्परिणामः । स त्वस्तित्व भूतद्रव्यवृत्त्यात्मकवात्सदविशिष्टो द्रव्यविधायिको गुण एवेति सत्ताद्रव्ययोर्गुणगुणिभावः सिद्धयति ॥ १७ ॥ रूपेण प्रथमगाथा पृथक्त्वलक्षणातद्भावविधानान्यत्वलक्षणयोः कथनेन द्वितीया संज्ञालक्षणप्रयोजनादिभेदरूपस्यातद्भावस्य विवरणरूपेण तृतीया तस्यैव दृढीकरणार्थं च चतुर्थी द्रव्यगुणयोरभेदविषये युक्तिकथनमुख्यतया गाथाचतुष्टयेन पञ्चमस्थलं गतम् । अथ सत्ता गुणो भवति द्रव्यं च गुणी भवतीति प्रतिपादयति--- जो खलु दव्यसहावो परिणामो यः खलु स्फुटं द्रव्यस्य स्वभावभूतः परिणामः पञ्चेन्द्रियविषयानुभवरूपमनोव्यापारोत्पन्नसमस्तमनोरथरूपविकल्पजालाभावे सति यश्चिदानन्दैकानुभूतिरूपः स्वस्थभावस्तस्योत्पादः, पूर्वोक्तविकल्पजालविनाशो व्ययः, तदुभयाधारभूतं जीवत्वं श्रौम्यमित्युक्तलक्षणोत्त्यादव्ययधौव्यात्मकजीवद्रव्यस्य स्वभावभूतो योऽसौ परिणामः सो गुणो स गुणो भवति स परिणामः । कथंभूतः सन्गुणो भवति । सदविसिद्धो सतोऽस्तित्वादविशिष्टोऽभिन्नस्तदुत्पादादित्रयं तिष्ठत्यस्तित्वं चैकं तिष्ठत्यस्तित्वेन सह कथमभिन्नो भवतीतिचेत् । " उत्पादव्ययधौव्ययुक्तं सत्" इति वचनात् । एवं सति सत्चैव गुणो भवतीत्यर्थः । इति गुणव्याख्यानं गतम् । सदवहिदं सहावे दव्व ति सदवस्थितं स्वभावे द्रव्यमिति । द्रव्यं परमात्मद्रव्यं भवति । किं कर्तृ । सदिति । केन । अभेदनयेन । कथं भूतम् । सत् अवस्थितम् । क । उत्पादव्ययधौमकस्वभावे । जिणोवदेसोयं अयं जिनोपदेश इति 'सदवट्ठिदं सहावे दव्वं दव्वस्स जो हु परिणामो' इत्यादिपूर्वसूत्रे यदुक्तं तदेवेदं व्याख्यानम्, गुणकथनं पुनरधिकमिति तात्पर्यम् । यथेदं जीवद्रव्ये गुणगुणिनोर्व्याख्यानं कृतं तथा सर्वद्रव्येषु ज्ञातव्यमिति ॥ १७॥
I
१३८
1
द्रव्यका स्वभावभूत [ परिणामः ] उत्पाद, व्यय, ध्रुवरूप त्रिकाल संबंधी परिणाम है, [सः ] वह [ सदविशिष्टः ] सत्तासे अभिन्न अस्तित्वरूप [ गुणः ] गुण है । और [ स्वभावे ] अस्तित्वरूप सत्ता-स्वभावमें [ अवस्थितं द्रव्यं ] तिष्ठता हुआ द्रव्य [सत् ] सत्ता कहलाता है, [ इति ] इस प्रकार [अयं ] यह [ जिनोपदेशः ] जिनभगवान्का उपदेश है । भावार्थ - द्रव्यका जो अस्तित्वरूप स्वभावभूत परिणाम है, उसको सत्ता नामका गुण कहते हैं । यह अस्तित्वरूप सत्तागुण द्रव्यसे ... अभिन्न द्रव्यका स्वभावभूत परिणाम है । और यह सत्ता गुण द्रव्यमें प्रधान है । सत्तामें द्रव्य स्थित रहता है । इसी कारण सत्ता गुणकी प्रधानतासे द्रव्यको सत् कहते हैं, और इस सत्ता गुणसे सत्स्वरूप गुणी द्रव्य जाना जाता है । इस कारण सत्ता गुण है, और द्रव्य गुणी है ॥ १७ ॥ आगे गुण - गुणीका
I
Jain Education International
[अ० २, गा० १७
For Private & Personal Use Only
www.jainelibrary.org