________________
कुन्दकुन्दविरचितः
यो मोहरागद्वेषान्निहन्ति उपलभ्य जैनमुपदेशम् । स सर्वदुःखमोक्षं प्राप्नोत्यचिरेण कालेन ॥ ८८ ॥
इह हि द्राघीयस सदाजवंजवपथे कथमप्यसुं समुपलभ्यापि जैनेश्वरं निशिततरवारिधारापथस्थानीयमुपदेशं य एव मोहरागद्वेषाणामुपरि दृढतरं निपातयति स एव निखिलदुःखपरिमोक्षं क्षिप्रमेवाप्नोति, नापरो व्यापारः करवालपाणिरिव । अत एव सर्वारम्भेण मोहक्षपणाय पुरुषकारे निषीदामि ॥ ८८ ॥
अथ स्वपरविवेकसिद्धेरेव मोहक्षपणं भवतीति स्वपरविभागसिद्धये प्रयततेणाणप्पगप्पाणं परं च दव्वत्तणाहिसंबद्धं ।
जाणदि जदि णिच्छयदो जो सो मोहक्वयं कुर्णादि ॥ ८९ ॥ ज्ञानात्मकमात्मानं परं च द्रव्यत्वेनाभिसंबद्धम् ।
जानाति यदि निश्चयतो यः स मोहक्षयं करोति ॥ ८९ ॥
१००
एव मोहरागद्वेषान्निहन्ति । किं कृत्वा । उपलभ्य प्राप्य । कम् । जैनोपदेशम् । स सर्वदुःखमोक्षं प्राप्नोति । केन । स्तोककालेनेति । तद्यथा - एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियादिदुर्लभपरंपरया जैनोपदेशं प्राप्य मोहरागद्वेषविलक्षणं निजशुद्धात्मनिश्चलानुभूतिलक्षणं निश्चयसम्यक्त्वज्ञानद्वयाविनाभूतं वीतरागचारित्रसंज्ञं निशितखड्गं य एव मोहरागद्वेषशत्रूनामुपरि दृढतरं पातयति स एव पारमार्थिकानाकुलत्वलक्षणसुखविलक्षणानां दुःखानां क्षयं करोतीत्यर्थः ॥ ८८ ॥ एवं द्रव्यगुणपर्यायविषये मूढत्वनिराकरणार्थं गाथाषट्केन तृतीयज्ञानकण्ठिका गता । अथ स्वपरात्मयोर्भेदज्ञानात् मोहक्षयो भवतीति प्रज्ञापयति - णाणप्पगमप्पाणं परं च दव्वणाहिसंबद्धं जाणदि जदि ज्ञानात्मकमात्मानं जानाति यदि । कथंभूतम् । स्वकीयशुद्धचैतन्यद्रव्यत्वेनाभिसंबद्धं, न केवलमात्मानम् । परं च यथोचितचेतनाचेतनपरकीय द्रव्यत्वेनाभिसंबद्धम् । कस्मात् । उसके लाभमें भी पुरुषार्थ करना कार्यकारी है, इसलिये उद्यमको दिखलाते हैं - [ यः ] जो पुरुष [ जैनं उपदेशं ] वीतराग प्रणीत आत्मधर्मके उपदेशको [ उपलभ्य ] पाकर [ मोहरागद्वेषान् ] मोह, राग, और द्वेषभावोंको [ निहन्ति ] घात करता है, [ सः ] वह [ अचिरेण कालेन ] बहुत थोड़े समयसे [ सर्वदुःखमोक्षं ] संपूर्ण दुःखोंसे भिन्न (जुदा ) अवस्थाको [ प्राप्नोति ] पाता है। भावार्थ — इस अनादि संसारमें किसी एक प्रकारसे तलवारकी धारके समान जिनप्रणीत उपदेशको पाकर, जो मोह, राग, द्वेषरूप शत्रुओंको मारता है, वह जीव शीघ्र ही सब दुःखोंसे मुक्त होकर (छूटकर ) सुखी होता है । जैसे कि सुभट तलवारसे शत्रुओंको मारकर सुखसे बैठता है । इसलिये मैं सब तरह उद्यमी होकर मोहके नाश करनेको पुरुषार्थमें सावधान हुआ बैठा हूँ ॥ ८८ ॥ अब स्वपरभेदके विज्ञानकी सिद्धिसे ही मोहका नाश होता है, इसलिये स्व तथा परके भेदकी सिद्धिके लिये प्रयत्न करते हैं - [ यः ] जो जीव [ यदि ] यदि [ निश्वयतः ] निश्चयसे [ ज्ञानात्मकं ] ज्ञानस्वरूप [ आत्मानं ] परमात्माको [ द्रव्यत्वेन ] अपने द्रव्य स्वरूपसे [ अभिसंबद्धं ] संयुक्त
Jain Education International
[अ० १, गा० ८९
For Private & Personal Use Only
www.jainelibrary.org