________________
कुन्दकुन्दविरचितः
[अ० १, गा० ४३
परिच्छेदनिदानमथवा ज्ञानमेव नास्ति तस्य । यतः प्रत्यर्थपरिणतिद्वारेण मृगतृष्णाम्भोभारसंभावनाकरणमानसः सुदुःसहं कर्मभारमेवोपभुञ्जानः स जिनेन्द्रैरुद्रीतः ॥ ४२ ॥
५०
- अथ कुतस्तर्हि ज्ञेयार्थपरिणमनलक्षणा क्रिया तत्फलं च भवतीति विवेचयति - उद्यगदा कम्मंसा जिणवरवसहेहिं णियदिणा भणिया । तेसु विमूढो रतो दुट्ठो वा बंधमणुभवदि || ४३ ॥ उदयगताः कर्माशाः जिनवरवृषभैः नियत्या भणिताः । तेषु विमूढो रक्तो दुष्टो वा बन्धमनुभवति ॥ ४३ ॥
संसारिणो हि नियमेन तावदुदयगताः पुद्गलकर्माशाः सन्त्येव । अथ स सत्सु तेषु संचेतयमानो मोहरागद्वेषपरिणतलात् ज्ञेयार्थपरिणमनलक्षणया क्रियया युज्यते । तत एव च क्रियात्मनः क्षायिकज्ञानं नैवास्ति । अथवा ज्ञानमेव नास्ति । कस्मान्नास्ति । तं जिणिंदा खवयंतं कम्ममेवुत्ता तं पुरुषं कर्मतापन्नं जिनेन्द्राः कर्तारः उक्तवन्तः । किं कुर्वन्तम् । क्षपयन्तमनुभवन्तम् । किमेव । कर्मैव । निर्विकारसहजानन्दैकसुखस्वभावानुभवनशून्यः सन्नुदयागतं स्वकीयकर्मैव स अनुभवन्नास्ते न च ज्ञानमित्यर्थः । अथवा द्वितीयव्याख्यानम् - यदि ज्ञाता प्रत्यर्थं परिणम्य पश्चादर्थं जानाति तदा अर्थानामानन्त्यात्सर्वपदार्थपरिज्ञानं नास्ति । अथवा तृतीयव्याख्यानम् - बहिरङ्गज्ञेयपदार्थान् यदा छद्मस्थावस्थायां चिन्तयति तदा रागादिविकल्परहितं स्वसंवेदनज्ञानं नास्ति, तदभावे क्षायिकज्ञानमेव नोत्पद्यते इत्यभिप्रायः ॥ ४२ ॥ अथानन्तपदार्थ परिच्छित्तिपरिणमनेऽपि ज्ञानं बन्धकारणं न भवति, न च रागादिरहितकर्मोदयोऽपीति निश्चिनोति — उदयगदा कम्मंसा जिणवरवसदेहिं णियदिणा भणिया उदयगता उदयं पाप्ताः कर्मांशा ज्ञानावरणादिमूलोत्तरकर्मप्रकृतिभेदाः जिनवरवृषभैर्नियत्या स्वभावेन भणिताः, किंतु स्वकीयशुभाशुभफलं दत्त्वा गच्छन्ति न च रागादिपरिणामरहिताः सन्तो बन्धं कुर्वन्ति । तर्हि कथं बन्ध करोति जीवः इति चेत् । तेसु विमूढो रतो दुट्ठो वा बन्धमणुभवदि तेषु उदयागतेषु सत्सु भोगता है । इसी लिये उसके निर्मल ज्ञानका लाभ नहीं है । परन्तु क्षायिकज्ञानीके भावरूप इन्द्रियों के अभावसे पदार्थोंमें सविकल्परूप परिणति नहीं होती है, क्योंकि निरावरण अतीन्द्रियज्ञानसे अनंत सुख अपने साक्षात् अनुभव गोचर है । परोक्षज्ञानीके इन्द्रियोंके आधीन सविकल्परूप परिणति है, इसलिये वह कर्मसंयोगसे प्राप्त हुए पदार्थोंको भोगता है ॥ ४२ ॥ आगे कहते हैं, कि ज्ञान बंधका कारण नहीं है, ज्ञेयपदार्थौमें जो राग द्वेषरूप परिणति है, वही बंधका कारण है - [ जिनवरवृषभैः ] गणधरादिको श्रेष्ठ अथवा बड़े ऐसे वीतरागदेवने [ उद्यगताः कर्माशाः ] उदय अवस्थाको प्राप्त हुए कर्मों के अंश अर्थात् ज्ञानावरणादि भेद [ नियत्या ] निश्चयसे [ भणिताः ] कहे हैं । [ तेषु ] उन उदयागत कर्मोंमें [हि] निश्चयकरके [मूढः ] मोही, [रक्तः ] रागी [वा ] अथवा [दुष्टः ] द्वेषी [बन्धं] प्रकृति, स्थिति आदि चार प्रकारके बन्धको [ अनुभवति ] अनुभव करता है, अर्थात् भोगता है । भावार्थ- संसारी सब जीवोंके कर्मका उदय है, परंतु वह उदय बंधका कारण नहीं है । यदि कर्म
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org