________________
[अ० १, गा० १५
उवओगविसुद्धो जो विगदावरणंतरायमोहरओ । भूदो सयमेबादा जादि परं णेयभूदाणं ।। १५ ।। उपयोगविशुद्ध यो विगतावरणान्तरायमोहरजाः । भूतः स्वयमेवात्मा याति परं ज्ञेयभूतानाम् ॥ १५ ॥ यो हि नाम चैतन्यपरिणामलक्षणेनोपयोगेन यथाशक्ति विशुद्धो भूत्वा वर्तते स खलु प्रतिपदमुद्भद्यमानविशिष्टविशुद्धिशक्तिरुग्रन्थिता संसारवद्भदृढ तर मोहग्रन्धित यात्यन्त निर्विकारचैबन्यो निरस्तसमस्तज्ञान दर्शनावरणान्तरायतया निःप्रतियविजृम्भितात्मशक्तिथ स्वयमेव भूतो मुख्यगौणरूपेणान्तस्तत्त्व बहिस्तत्त्वप्ररूपणसमर्थायां च प्रथमत एकोत्तरशतगाथाभिर्ज्ञानाधिकारः, तदनन्तरं त्रयोदशाधिकशतगाथाभिर्दर्शनाधिकारः, ततश्च सप्तनवतिगाथाभिश्चारित्राधिकारश्चेति समुदायेनैकादशाधिकत्रिशतप्रमितसूत्रैः सम्यग्ज्ञानदर्शनचारित्ररूपेण महाधिकारत्रयं भवति । अथवा टीकाभिप्रायेण तु सम्यग्ज्ञानज्ञेयचारित्राधिकार चूलिकारूपेणाधिकारत्रयम् । तत्राधिकारत्रये प्रथमतस्तावज्ज्ञानाभिधानमहाधिकारमध्ये द्वासप्ततिगाथापर्यन्तं शुद्धोपयोगाधिकारः कथ्यते । तासु द्वासप्ततिगाथासु मध्ये 'एस सुरासुर' इमां गाथामादिं कृत्वा पाठक्रमेण चतुर्दशगाथापर्यन्तं पीठिका । तदनन्तरं सप्तगाथापर्यन्तं सामान्येन सर्वज्ञसिद्धि:, तदनन्तरं त्रयस्त्रिंशद्गाथापर्यन्तं ज्ञानप्रपञ्चः । ततश्चाष्टादशगाथापर्यन्तं सुखप्रपञ्चश्चेत्यन्तराधिकारचतुष्टयेन शुद्धोपयोगाधिकारो भवति । अथ पञ्चविंशतिगाथापर्यन्तं ज्ञानकण्ठिकाचतुष्टयप्रतिपादकनामा द्वितीयोऽधिकारश्चेत्यधिकारद्वयेन, तदनन्तरं स्वतन्त्रगाथाचतुष्टयेन चैकोत्तरशतगाथाभिः प्रथममहाधिकारे समुदायपातनिका ज्ञातव्या ॥
इदानीं प्रथमपातनिकाभिप्रायेण प्रथमतः पञ्चगाथापर्यन्तं पञ्चपरमेष्ठिनमस्कारादिप्ररूपणप्रपञ्चः, तद्नन्तरं सप्तगाथापर्यन्तं ज्ञानकण्ठिकाचतुष्टयपीठिकाव्याख्यानं क्रियते, तत्र पञ्च स्थलानि भवन्ति तेष्वादौ नमस्कार मुख्यत्वेन गाथापञ्चकं, तदनन्तरं चारित्रसूचनमुख्यत्वेन 'संपज्जइ णिव्वाणं' इति प्रभृति गाथात्रयमथ शुभाशुभशुद्धोपयोगत्रय सूचनमुख्यत्वेन ' जीवो परिणमदि' इत्यादिगाथासूत्रद्वयमथ तत्फलकथनमुख्यतया 'धम्मेण परिणदप्पा' इति प्रभृति सूत्रद्वयम् । अथ शुद्धोपयोगध्यातुः पुरुषस्य प्रोत्साहनार्थं शुद्धोपयोगफलदर्शनार्थं च प्रथमगाथा, शुद्धोपयोगिपुरुषलक्षणकथनेन द्वितीया चेति 'अइसयमादसमुत्थं ' इत्यादि गाथाद्वयम् । एवं पीठिकाभिधानप्रथमान्तराधिकारे स्थलपञ्चकेन चतुर्दशगाथाभिः समुदायपातनिका प्रोक्ता || इति चतुर्दशगाथाभिः स्थलपञ्चकेन पीठिकाभिधानः प्रथमोऽन्तराधिकारः समाप्तः ||
तदनन्तरं सामान्येन सर्वज्ञसिद्धिर्ज्ञानविचारः संक्षेपेग शुद्धोपयोगफलं चेति कथनरूपेण गाथासप्तकम् । तंत्र स्थलचतुष्टयं भवति, तस्मिन् प्रथमस्थले सर्वज्ञस्वरूपकथनार्थं प्रथमगाथा, स्वयंभूकथनार्थं द्वितीया चेति 'उवओगविसुद्धो' इत्यादि गाथाद्वयम् । अथ तस्यैव भगवत उत्पादव्ययधौव्यस्थापनार्थं प्रथमगाथा, भावकी प्राप्ति होती हैं, ऐसा कहते हैं - [ यः उपयोगशुद्धः आत्मा ज्ञेयभूतानां पारं याति ] .जो आत्मा शुद्धोपयोगले निर्मल हो गया है, वही आत्मा सब पदार्थों के अंतको पाता है, अर्थात् जो
१६
Jain Education International
कुन्दकुन्दविरचितः
For Private & Personal Use Only
www.jainelibrary.org