SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारः पिण्डवत्तन्मयं भवति । ततोऽयमात्मा धर्मेण परिणतो धर्म एव भवतीति सिद्धमात्मनश्चारित्रखम् ॥ ८॥ ___ अथ जीवस्य शुभाशुभशुद्धलं निश्चिनोति जीबो परिणमदि जदा सुहेण असुहेण वा सुहो असुहो। सुद्धेण तदा सुद्धो हवदि हि परिणामसम्भावो ॥ ९ ॥ जीवः परिणमति यदा शुभेनाशुभेन वा शुभोऽशुभः। शुद्धेन तदा शुद्धो भवति हि परिणामस्वभावः ॥९॥ यदाऽयमात्मा शुभेनाशुभेन वा रागभावेन परिणमति तदा जपातापिच्छरागपरिणतस्फटिकवत् परिणामस्वभावः सन् शुभोऽशुभश्च भवति । यदा पुनः शुद्धनारागभावेन परिणमति शुद्धाशुद्धभेदेन द्विधा । रागादिविकल्परहितस्वसंवेदनज्ञानमागमभाषया शुक्लध्यानं वा केवलज्ञानोत्पत्ती शुद्धोपादानकारणं भवति । अशुद्धात्मा तु रागादिना अशुद्धनिश्चयेनाशुद्धोपादानकारणं भवतीति सूत्रार्थः ॥ ८ ॥ एवं चारित्रस्य संक्षेपसूचनरूपेण द्वितीयस्थले गाथात्रयं गतम् । अथ शुभाशुभशुद्धोपयोगत्रयेण परिणतो जीबः शुभाशुभशुद्धोपयोगस्वरूपो भवतीत्युपदिशति- जीबो परिणमदि जदा मुहेण असुहेण वा जीवः कर्ता यदा परिणमति शुभेनाशुभेन वा परिणामेन सुहो असुहो हवदि तदा शुभेन शुभो भवति, अशुभेन वाऽशुभो भवति । सुद्धेण तदा सुद्धो हि शुद्धेन यदा परिणमति तदा शुद्धो भवति । हि स्फुटम् । कथंभूतः सन् । परिणामसब्भावो परिणामसद्भावः सन्निति । तद्यथा-यथा स्फटिकमणिविशेषो निर्मलोऽपि जपापुष्पादिरक्तकृष्णश्वेतोपाधिवशेन रक्तकृष्णश्वेतवर्णो भवति, तथाऽयं जीवः स्वभावेन शुद्धबुबैकस्वरूपोऽपि व्यवहारेण गृहस्थापेक्षया यथासंभवं सरागसम्यक्त्वपूर्वकदानपूजादिशुभानुष्ठानेन, तपोधनापेक्षया तु मूलोत्तरगुणादिशुभानुष्ठानेन परिणतः शुभो ज्ञातव्य इति । मिथ्यात्वाविरतिप्रमादकषाययोगपञ्चप्रत्ययरूपाशुभोपयोगेनाशुभो विज्ञेयः । निश्चयरत्नत्रयात्मकशुद्धोपयोगेन परिणतः शुद्धो ज्ञातव्य इति । किंच जीवस्यासंख्येयलोकमात्रपरिणामाः सिद्धान्ते मध्यमप्रतिपत्त्या मिथ्यादृष्टयादिचतुर्दशगुणस्थानरूपेण कथिताः । अत्र प्रा. भृतशास्त्रे तान्येव गुणस्थानानि संक्षेपेण शुभाशुभशुद्धोपयोगरूपेण कथितानि । कथमिति चेत् ---मिथ्यात्वचारित्रके एकपना है । आत्माको चारित्र भी कहते हैं ॥ ८ ॥ _आगे आत्माके शुभ, अशुभ तथा शुद्ध भावोंका निर्णय करते हैं [यदा जीवः] जब यह जीव [शुभेन अशुभेन वा परिणमति] शुभ अथवा अशुभ परिणामोंकर परिणमता है, [तदा शुभ अशुभो भवति] तब यह शुभ वा अशुभ होता है। अर्थात् जब यह दान, पूजा, व्रतादिरूप शुभपरिणामोंसे परिणमता है, तब उन भावोंके साथ तन्मय होता हुँमा शुभ होता है, और जब विषय, कषाय, अवतादिरूप अशुभभावोंकर परिणत होता है, तब उन माफोके साथ उन्हीं स्वरूप हो जाता है । जैसे स्फटिकमणि काले फूलका संयोग मिलनेपर काला ही हो माता है। क्योंकि स्फटिकका ऐसा ही परिणमन-स्वभाव है । उसी प्रकार जीवका भी समझना । प्र. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003289
Book TitlePravachanasara
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherShrimad Rajchandra Ashram
Publication Year1964
Total Pages612
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy