________________
७]
संपद्यते हि दर्शनज्ञानप्रधानाच्चारित्राद्वीतरागान्मोक्षः । तत एव च सरागाद्देवासुरमनुजराजविभवक्लेशरूपो बन्धः । अतो मुमुक्षुणेष्टफलत्वाद्वीतरागचारित्रमुपादेयमनिष्टफलत्वात्सरागचारित्रं हेयम् ।। ६ ।।
अथ चारित्रस्वरूपं विभावयति
प्रवचनसारः
चारितं खलु धम्मो धम्मो जो सो समो ति णिोि । मोहक्खोहविहीण परिणामो अप्पणो हु समो ॥ ७ ॥ चारित्रं खलु धर्मो धर्मो यः स शम इति निर्दिष्टः । मोक्षोभविहीनः परिणाम आत्मनो हि शमः ॥ ७ ॥
स्वरूपे चरणं चारित्रं स्वसमयप्रवृत्तिरित्यर्थः । तदेव वस्तुस्वभावत्वाद्धर्मः । शुद्धचैतन्यस्वभावे शुद्धात्मद्रव्ये यन्निश्चलनिर्विकारानुभूतिरूपमवस्थानं तल्लक्षणनिश्चयचारित्राजीवस्य समुत्पद्यते । किम् । पराधीनेन्द्रियजनितज्ञानसुखविलक्षणं, स्वाधीनातीन्द्रियरूपपरमज्ञानसुखलक्षण निर्वाणम् । सरागचारित्रात्पुनर्देचासुरमनुष्यराजविभूतिजनको मुख्यवृत्त्या विशिष्टपुण्यबन्धो भवति, परम्परया निर्वाण चेति । असुरेषु मध्ये सम्यग्दृष्टिः कथमुत्पद्यते इति चेत्- निदानबन्धेन सम्यक्त्वविराधनां कृत्वा तत्रोत्पद्यत इति ज्ञातव्यम् । अत्र निश्वयेन वीतरागचारित्रमुपादेयं सरागं हेयमिति भावार्थः || ६ || अथ निश्चयचारित्रस्य पर्यायनामानि कथयामीत्यभिप्रायं मनसि संप्रधार्य सूत्रमिदं निरूपयति, एवमग्रेऽपि विवक्षितसूत्रार्थं मनसि धृत्वाथवास्थ सूत्रस्याग्रे सूत्रमिदमुचितं भवत्येवं निश्चित्य सूत्रमिदं प्रतिपादयतीति पातनिकालक्षणं यथासंभवं सर्वत्र ज्ञातव्यम्-चारितं चारित्रं कर्तृ खलु धम्मो खलु स्फुटं धर्मो भवति । धम्मो जो सो समो ति णिदिट्ठो धर्मो यः स तु शम इति निर्दिष्टः । समो यस्तु शमः सः मोहक्खोहविहीणो परिणामो अप्पणी हु मोहक्षोभविहीनः परिणामः । कस्य । आत्मनः । हु स्फुटमिति । तथाहि - शुद्धचित्स्वरूपे चरणं चारित्रं, तदेव चारित्रं मिथ्यात्वरागादिसंसरणरूपेण भावसंसारे पतन्तं प्राणिनमुद्धृत्य निर्विकारशुद्धचैतन्ये धरतीति धर्मः । वीतरागचारित्र से मोक्ष होती है, इस कारण वीतराचारित्र आप मोक्षरूप है, और सरागचारित्रसे इंद्र, धरणेंद्र, चक्रवर्तीकी विभूतिस्वरूप बंध होता है, क्योंकि सरागचारित्र कषायोंके अंशोंके मेलसे आत्माके गुणोका घात करनेवाला है । इस कारण आप बंघरूप है । इसीलिये ज्ञानी पुरुषोंको सरागचारित्र त्यागने योग्य कहा है, और वीतरागचारित्र ग्रहण करने योग्य कहा गया है ॥ ६ ॥
आगे निश्चयचारित्रका स्वरूप कहते हैं
[ खलु चारित्रं धर्मः ] निश्चयकर अपनेमें अपने स्वरूपका आचरणरूप जो चारित्र वह धर्म अर्थात् वस्तुका स्वभाव है, जो स्वभाव है, वह धर्म है । इस कारण अपने स्वरूप धारण करनेसे चारित्रका नाम धर्म कहा गया है । [ यः धर्मः तत्साम्यमिति निर्दिष्टम् ] जो धर्म है, यही समभाव है, ऐसा श्रीवीतरागदेवने कहा है । वह साम्यभाव क्या है ? [ मोहक्षोभविहीनः आत्मनः परिणामः ] उद्वेगपने ( चंचलता ) से रहित आत्माका परिणाम वही साम्यभाव है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org