________________
५]
प्रवचनसारः
सह वर्तमानकालं गोचरीकृत्य युगपद्युगपत्प्रत्येकं प्रत्येकं च मोक्षलक्ष्मीस्वयंवरायमाणपरमनैर्ग्रन्थ्यदीक्षाक्षणोचितमङ्गलाचार भूतकृतिकर्मशास्त्रोपदिष्टवन्दनाभिधानेन संभावयामि ॥ ३ ॥ अथैवमईत्सिद्धाचार्योपाध्याय सर्वसाधूनां प्रणतिवन्दनाभिधानप्रवृत्तद्वैतद्वारेण भाव्यभावकभावविजृम्भितातिनिर्भरेतरेतरसंवलनबलविलीननिखिलस्वपरविभागतया प्रवृत्ताद्वैतं नमस्कारं कृत्वा ॥४॥ तेषा - मेवात्सिद्धाचार्योपाध्याय सर्वसाधूनां विशुद्धज्ञानदर्शनप्रधानत्वेन सहजशुद्धदर्शन ज्ञानस्वभात्रात्मतत्त्वश्रद्धानावबोधलक्षणसम्यग्दर्शनज्ञानसंपादकमाश्रमं समासाद्य सम्यग्दर्शनज्ञानसंपन्नो भूत्वा, नमस्करोमि । कया । करणभूतया मोक्षलक्ष्मीस्वयंवरमण्डपभूते जिनदीक्षाक्षणे मङ्गलाचारभूतया अनन्तज्ञानादिसिद्धगुणभावनारूपया सिद्धभक्त्या, तथैव निर्मलसमाधिपरिणतपरमयोगिगुणभावनालक्षणया योगिभक्तया चेति । एवं पूर्वविदेहतीर्थकरनमस्कारमुख्यत्वेन गाथा गतेत्यभिप्रायः | ३ || अथ किच्चा कृत्वा । कम् । णमो नमस्कारम् | केभ्यः । अरहंताणं सिद्धाणं तह णमो गणहराणं अज्झावयवम्गाणं साहूणं चेव अर्हत्सिद्धगणधरोपाध्याय साधुभ्यश्चैव । कतिसंख्योपेतेभ्यः । सव्वेसिं सर्वेभ्यः । इति पूर्वगाथात्रयेण कृतपञ्चपरमेष्ठिनमस्कारोपसंहारोऽयम् || ४ || एवं पञ्चपरमेष्ठिनमस्कारं कृत्वा किं करोमि । उवसंपयामि उपसंपद्ये समाश्रयामि । किम् । सम्मं साम्यं चारित्रम् । यस्मात् किं भवति । जत्तो णिव्वाणसंपत्ती यस्मान्निर्वाणसंप्राप्तिः । किं कृत्वा । पूर्वं समासिज्ज समासाद्य प्राप्य । कम् । विसुद्धणाणदंसणपहाणासमं विशुद्धज्ञानदर्शनलक्षणप्रधानाश्रमम् । केषां संबन्धित्वेन । तेसिं तेषां पूर्वोक्तपरमेष्ठिनामिति । तथाहि— अहमाराधकः, एते चार्हदादय आराध्या इत्याराध्याराधकविकल्परूपो द्वैतनमस्कारो भण्यते । रागाद्युपाधिविकल्परहितपरमसमाधिबलेनात्मन्येवाराध्याराधकभावः पुनरद्वैतनमस्कारो भण्यते । इत्येवंलक्षणं पूर्वोक्तगाथा
इस समय तीर्थंकर मौजूद नहीं हैं, इस कारण जो महाविदेह में तीर्थंकर वर्तमान हैं, उनको मन वचन कायसे शास्त्रके अनुसार नमस्कार करता हूँ । वह नमस्कार दो तरहका है, द्वैत तथा अद्वैत, जो शरीरको नमाकर मस्तकको भूमिमें लगाकर, अनेक स्तुतियोंसे पंचपरमेष्ठीको अष्टाङ्ग नमस्कार करना हैं, वह द्वैत नमस्कार है, और जिस जगह भाव्यभावकभावोंकी विशेषता ( उत्कटता ) से अत्यंत लीन होकर ' ये पञ्चपरमेष्ठी' 'यह मैं' ऐसा अपना और परका मेद मिट जावे, उस जगह अद्वैत नमस्कार कहा जाता है । अभ्यन्तरके परिणामोंको भाग्य, तथा वचनोंके बोलनेरूप बाह्य भावोंको भावक कहते हैं ॥ ३ ॥ [ अहं साम्यं उपसंपद्ये ] मैं ग्रन्थकर्ता शान्त भाव जो वीतरागचारित्र उसको स्वीकार करता हूँ । क्या करके [ अर्हद्भय नमस्कृत्य ] अरहंत जो अनन्तचतुष्टयसहित जीवन्मुक्त जिनवर हैं, उनको पहिले कहा हुआ दो तरहका नमस्कार करके, [ तथा सिद्धेभ्यः ] और उसी प्रकार सिद्धोंको, [ गणघरेभ्यः ] आचार्योंको, [ अध्यापकवर्गेभ्यः ] उपाध्यायोंके समूहको [ च इति सर्वेभ्यः साधुभ्यः ] और इसी प्रकार सब साधुओंको नमस्कार करके || ४ || फिर क्या करके शमपरिणामोंकों स्वीकार करता हूँ ? [तेषां विशुद्धदर्शनज्ञानप्रधानाश्रमं ] उन पञ्चपरमेष्ठियोंके निर्मल दर्शनज्ञानस्वरूप मुख्य स्थानको [ समासाद्य ] पाकरके । [ यतो निर्वाणसंप्राप्तिः ] क्योकि इन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org