SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ नवस्मरणादिसङ्ग्रहे भूर्भुवःस्वस्त्रयीपीठवर्तिनः शाश्वता जिनाः । तैः स्तुतैर्वन्दितैष्टैर्यत् फलं तत् फलं स्मृतौ ॥ ९१ ॥ एतद् गोप्यं महास्तोत्रं, न देयं यस्य कस्यचित् । मिथ्यात्ववासिने दत्ते, बालहत्या पदे पदे ॥ ९२ ॥ आचाम्लादि तपः कृत्वा पूजयित्वा जिनावलीम् । अष्टसाहस्त्रिको जापा, कार्यः तसिद्धिहेतवे ॥ ९३ ॥ शतमष्टोत्तरं प्रातः, ये स्मरन्ति दिने दिने । तेषां न व्याधयो देहे. प्रभवन्ति न चापदः ॥ ९४ ॥ युग्मम्॥ अष्टमासावधि यावत्, प्रातः प्रातस्तु यः पठेत् । स्तोत्रमेतत् महातेजो, जिनबिम्बं स पश्यति ॥ ९५ ॥ दृष्टे सत्यहतो विम्बे, भवे सप्तमके ध्रुवम् । पदमाप्नोति शुद्धात्मा, परमानन्दसम्पदाम् ॥ ९६ ॥ युग्मम् । विश्ववन्द्यो भवेद ध्याता, कल्याणानि च सोऽश्नुते । गत्वा स्थानं परं सोऽपि, भूयस्तु न निवर्तते ॥ ९७ ॥ इदं स्तोत्रं महास्तोत्रं, स्तुतीनामुत्तमं परम् । पठनात् स्मरणाद जापाद् , लभते पदमव्ययम् ॥ ९८॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy