SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ वृहद् ऋषिमण्डलस्तोत्रम् | एताः सर्वा महादेव्योः वर्त्तन्ते या जगत्त्रये । मह्यं सर्वाः प्रयच्छन्तु, कान्तिं कीर्त्तिधृतिं मतिम् ॥८२॥ विशेषकम् । दुर्जना भूत- वेतालाः पिशाचा मुद्गलास्तथा । ते सर्वेऽप्युपशाम्यन्तु देवदेवप्रभावतः ॥ ८३ ॥ दिव्यो गोप्यः सुदुष्प्रापः, श्रीऋषिमण्डलस्तवः | भाषितः तीर्थनाथेन, जगत्त्राणकृतेऽनघः ॥ ८४ ॥ रणे राजकुले वहौ, जले दुर्गे गजे हरौ । श्मशाने विपिने घोरे, स्मृतो रक्षति मानवम् ॥ ८५ ॥ राज्यभ्रष्टा निजं राज्यं, पदभ्रष्टा निजं पदम् । लक्ष्मीभ्रष्टा निजां लक्ष्मीं प्राप्नुवन्ति न संशयः ॥ ८६ ॥ भार्यार्थी लभते भार्या, सुतार्थी लभते सुतम् । वित्तार्थी लभते वित्तं नरः स्मरणमात्रतः ॥ ८७ ॥ विशेषकम् । स्वर्णे रौप्ये पटे कांस्ये, लिखित्वा यस्तु पूजयेत् । तस्यैवाष्टमहासिद्धिर्गृहे वसति शाश्वती ॥ ८८ ॥ भूर्जपत्रे लिखित्वेदं, गलके मूर्ध्नि वा भुजे । धारितं सर्वदा दिव्यं सर्वभीतिविनाशकम् ॥ ८९ ॥ भूतैः प्रेतग्रहैर्यक्षैः पिशाचैर्मुद्गलैर्मलैः । वातपित्तकफोद्रेकैः, मुच्यते नात्र संशयः ॥ ९० ॥ Jain Education International ६३ For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy