________________
५०
नवस्मरणादिसङ्ग्रहे
शिवं गते भर्तरि वीरनाथे, युगप्रधानत्वमिहैव मत्वा । पट्टाभिषेको विदधे सुरेन्द्रः, स गौतमो यच्छतु वाञ्छितं मे ॥ ८ ॥ त्रैलोक्यबीजं परमेष्ठिबीजं, सद्ध्यान वीजं जिनराजबीजम् । यन्नाम चोक्तं विदधाति सिद्धिं स गौतमो यच्छतु वाञ्छितं मे ॥ ९ ॥ श्रीगौतमस्याष्टकमादरेण प्रबोधकाले मुनिपुङ्गवा ये । पठन्ति ते सूरिपदं च देवानन्दं लभन्ते नितरां क्रमेण
11 20 11
श्रीशत्रुञ्जय तीर्थस्तोत्रम् |
पूर्णानन्दमयं महोदयमयं कैवल्यचिद्दृङ्मयं, रुपातीतमयं स्वरूपरमणं स्वाभाविकी श्रीमयम् । ज्ञानोद्योतमयं कृपारसमयं स्याद्वादविद्यालयं, श्रीसिद्धाचलतीर्थराजमनिशं वन्देऽहमादीश्वरम् ॥ १ ॥
श्रीमद्युगादीश्वरमात्मरूपं,
योगीन्द्रगम्यं विमलाद्रि संस्थम् । सज्ज्ञानसद्दृष्टिसुदृष्ट लोकं,
श्रीनाभिसूनुं प्रणमामि नित्यम् ॥ २ ॥ राजादनाधस्तनभूमिभागे, युगादिदेवाङ्घ्रिसरोजपीठम् । देवेन्द्रवन्द्यं सुरराजपूज्यं, सिद्धाचलाग्रस्थितमर्चयामि ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org