________________
श्रीगौतमस्थाम्यष्टकम् ।
श्रीगौतमस्वाम्यष्टकम् । श्रीइन्द्रभूति वसुभूतिपुत्रं, पृथ्वीभवं गौतमगोत्ररत्नम् । स्तुवन्ति देवाऽसुरमानवेन्द्राः, स गौतमो यच्छतु
वाञ्छितं मे ॥१॥ श्रीवर्धमानात् त्रिपदीमवाप्य, मुहूर्तमात्रेण कृतानि येन। अङ्गानि पूर्वाणि चतुर्दशाऽपि, स गौतमो यच्छतु
वाञ्छितं मे ॥२॥ श्रीवीरनाथेन पुरा प्रणीतं, मन्त्रं महानन्दसुखाय यस्य। ध्यायन्त्यमी सूरिवराः समग्राः, स गौतमो यच्छतु
वाञ्छितं मे ॥ ३ ॥ यस्याभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षाभ्रमणस्य काले मिष्टान्नपानाम्बरपूर्णकामाः, स गौतमो यच्छतु वाञ्छितं
मे ॥४॥ अष्टापदाद्रौगगने स्वशक्त्या, ययौ जिनानां पदवन्दनाय । निशम्य तीर्थातिशयं सुरेभ्यः, स गौतमो यच्छतु
वान्छितं मे ॥ ५॥ त्रिपश्चसङ्ख्याशततापसानां, तपाकृशानामपुनर्भवाय । अक्षीणलब्ध्या परमान्नदाता, स गौतमोयच्छतुवाञ्छितं
मे ॥६॥ सदक्षिणं भोजनमेव देयं, साधर्मिकं सङ्घसपर्ययेति । कैवल्यवस्त्रं प्रददौ मुनीनां, स गौतमो यच्छतु वाच्छितं
मे ॥ ७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org