________________
सप्तमं भक्तामरस्मरणम् । रक्तक्षणं समदकोकिलकण्ठनीलं,
क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क
स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७॥ वल्गत्तुरङ्गगजर्जितभीमनाद__ माजी बलं बलवतामपि भूपतीनाम् । उद्यद्दिवाकरमयूखशिखापविद्धं,
त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ ३८ ॥ कुन्ताग्रभिन्नगजशोणितवारिवाह
वेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षा
स्त्वत्पादपङ्कजवनायिणो लभन्ते ॥ ३९॥ अम्भोनिधौ क्षुभितभीषणनक्रचक्र
पाठीनपीठभयदोल्वणवाडवानो। रङ्गत्तरङ्गशिखरस्थितयानपात्रा.
स्त्रासं विहाय भवतः स्मरणाद व्रजन्ति ॥४०॥ उद्भूतभीषणजलोदरभारभुनाः,
शोच्यां दशामुपगताच्युतजीविताशाः। त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा,
मां भवन्ति मकरध्वजतुल्यरूपाः॥४१॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा, गाढं बृहन्निगडकोटिनिघृष्ठजनाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org