________________
सप्तमं मकामरलारणम् । चित्रं किमत्र यदि ते त्रिदशाहनाभि
तं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन,
किं मन्दरादिशिखरं चलितं कदाचित् १ ॥१५॥ निधूमवतिरपवर्जिततैलपूरः,
कृत्स्नं जगत्रयमिदं प्रकटीकरोषि। गम्यो न जातु मरुतां चलिताचलानां,
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः,
स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः,
सूर्यातिशायिमहिमाऽसि मुनीन्द्र! लोके ॥१७॥ नित्योदयं दलितमोहमहान्धकार, .
गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाजमनल्पकान्ति,
विद्योतयजगदपूर्वशशाङ्कबिम्बम् ॥१८॥ किं शर्वरीषु शशिनाहि विवस्वता वा, - युष्मन्मुखेन्दुदलितेषु तमस्तु नाथ!। निष्पन्नशालिवनशालिनि जीवलोके,
कार्य कियज्जलधरैजलभारनः १ ॥ १९॥ ज्ञानं यथा स्वयि विभाति कृतावकाशं,
नैवं तथा हरिहरादिषु नायकेषुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org